________________
118
सव्याख्यवार्थसिद्धिसहिततत्त्व मुक्काकलापे
[नायक
तत्त्वमुक्ताकलापः
कर्तोपादानमेव स्वसुखमुखगुणे स्वप्रयत्न
प्रसूते
संयोगं स्वस्य मूर्तेस्स्वयमुपजनयन्नीश्वरोऽ
प्येवमिष्टः ।
सर्वोपादानभावस्तन इह घटते सर्वकर्तर्यमु
ष्मिन्
सर्वार्थसिद्धिः
"
ननु यद्यम्य निमित्तं न तत्तस्योपादानमिति स्थिते साक्षात्स द्वारकं वा कथमुपादानत्वमित्यत्र परप्रक्रिययैव विरोधं परिहरति-कर्तेति । जीवस्तावत्ततैरुपायैः स्वसुखादीनुत्पादयति तेषां समवायिकारणं च भवतीति मन्यसे ; तावदेव च निमित्तोपादानत्वम् । ईश्वरेऽपि तदुभयं 1 क्वचिदङ्गीकरोषीत्याह —– संयोगमिति । नचात्रोपादानत्वं भाक्तम्, विपरिवर्तस्य सुवचत्वात् । अतः प्रकृत्यधि करणसाघितं न प्रतिक्षेप्तुं शक्यमित्याह — सर्वेति । तर्हि ' सोऽकामयत' 'तदात्मानं स्वयमकुरुत ' इत्यादिकं स्वरूपपरिणामवादिब्रह्मदत्तभास्करादिमतभेदैरव्यवहितमेव
आनन्ददायिनी
आक्षेपसंगतिमाह – नन्विति । विपरिवर्तस्येति । निमित्तत्वमेव भाक्त कुतो न स्यादित्यर्थ । आदिशब्देन मायिमतादिसंग्रहः । अव्यवहितमेवेति । तत्रैव स्वारस्यादिति भावः ।
1 रुपायैस्सुखादी - पा.
2 करणे साधितं - पा.