________________
सरः ३]
ईश्वरस्य जगदुपादानत्वं, निर्विकारादिश्रुत्यविरोधश्च
117
तत्त्वमुक्ताकलापः निष्कृष्टेऽस्मिन् 'शरीरिण्यखिलगुणगणालवृत्तानन्दरूपे
संपद्यन्ते समस्तास्समुचितगतयो निर्विकारादिवादाः ॥ २५ ॥
सर्वार्थसिद्धिः
विकाराद्याश्रयस्य कथं तदभावोपदेश इत्यत्राह-निष्कृष्ट इति ॥२५॥
आनन्ददायिनी विरादौ कथामिति वाच्यम् । तत्रापि शरीरस्यैव उपादानोपादेयभावादिति चेन्न । यदि साक्षात्तदाधारत्वेनोपादानत्वं तदाऽपि भूतलस्य घटाधुपादानत्वप्रसङ्गः । न च समवायसंबन्धेन तदाश्रयत्वं विवक्षितमिति न दोष इति वाच्यम् । तथाऽप्यपृथसिद्धयोरेव समवाय इति कार्यकारणयोरपृथक्सिद्धयोरुपादानोपादेयभावोऽस्तु । यद्यत्राप्यतिप्रसक्तिशङ्का सा समवायेऽपीति तथैव परिहार्या । साक्षात्त्वविशेषणं तु व्यर्थम् । यच्च शरीरस्यैवोपादानत्वमिति तद्व्यवहारविरोधान्निरस्तम् । बालो देवदत्तः स्थविरोऽभूदिति हि विशिष्टे व्यवहारः । 'निष्कृष्टेऽस्मिन् शरीरिणि' इत्यादिमूलस्य प्रकृतिगतत्वाद्विकारस्य नात्मस्वरूपे साक्षाद्विकार इति भावः । आदिशब्देनानन्दाद्युपदेशपरिग्रहः ॥ २५ ॥
1 शरीरिण्यमल-पा.
2 विकाराश्रयस्य-पा.