SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 116 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे (नायक तत्त्वमुक्ताकलापः अस्यैवाचिन्त्यशक्तेरखिल जनयितुस्स्यादुपा दानभावः सूक्ष्माव्यक्तादिदेहः परिणमति यतोऽनेकधा स्थूलवृत्त्या । सर्वार्थसिद्धिः श्रुतिसिद्धम्य विश्वकर्तुः श्रौतमुपादानत्वमपि प्रस्तौतिअस्यति । अखिलजनयितुरस्यैवेति विरोधशङ्कासूचनम् , अचिन्त्यशक्तरिति परिहारनिदानगर्भम् । विकारापुरुषार्थनिषेधकशास्त्रविरोधशान्त्य सर्वोपादानत्वं बालयुवपरिणतित्रत् सद्वारकमित्याह-सूक्ष्मेति । मूक्ष्मत्वस्थूलत्वोक्तिहेतुकार्यभावघटनार्था । अनेकवेत्युक्त्या . तम एकीभवति ' इत्यादिप्रसिद्धप्राच्यावस्थातो वैषम्यं व्यज्यते । उपादानतया आनन्ददायिनी प्रसङ्गसङ्गतिमाह-श्रुतिसिद्धस्येति। विरोधशङ्केति । कर्तुरुपादानत्वविरोधशङ्केत्यर्थः । परिहारेति । अचिन्त्यशक्तित्वादेव कर्तृत्वमुपादानत्वं च युज्यते । लोके 'कर्तुरनुपादानत्वं शक्तयभावनिबन्धनमिति भावः । निष्कलं निष्क्रियमिति विकारनिषेधशास्त्र ; कृत्लो रसघन एवेति कृस्वरसघनशब्दाभ्यां पुरुषार्थानंदतायोगव्यवच्छेदकाभ्यां तदन्य तद्विरोधिनिषेधलाभात् पुरुषार्थनिषेधकं शास्त्रम् । प्राच्यावस्थात इति । च्चिप्रत्ययेन भूतपूर्वैकत्वावस्थावगमादिति भावः । ननु सद्वारकत्वेनोपादानत्वे भूतलस्य घटाधुपादानत्वप्रसङ्गः । न च बालस्थ 1 कर्तुपादान-ग. निष्कल निर्विकारमिति-ग ३ तद्विरुद्धनि-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy