________________
सरः ३] ईश्वरस्यानुमानिकतानिरासेन प्रसक्तस्य मांख्याधिकरणविरोधस्य निरासः 115
तत्त्वमुक्ताकलापः वास्यादौ व्याप्तिसिद्धेरिति यदभिहितं सांख्यसिद्धान्तभने।
सोऽपि प्राज्ञव्युदासेऽप्यनुमितिशरणान् प्रत्युपात्तः प्रसङ्गो
नेष्टे तत्सिद्धयसिद्धयोरनुमितिरिति खल्वाशयस्सूत्रकर्तुः ।। २४ ॥
सर्वार्थसिद्धिः सोऽपीति | तात्पर्यभेदं विवृणोति-नेति । प्राज्ञानविष्ठितत्वमनुमातुं न शक्यमिति सांख्याधिकरणतात्पर्यम् । शास्त्रयोन्यधिकरणस्य त्वधिष्ठितत्वं नानुमातुं शक्यमिति । अतम्साधकबाधकामावे शास्त्रं निरङ्कुशप्रसरमिति सूत्रकाराभिप्राय एव भाष्ये दर्शित इति ॥ २४ ॥ _इति शास्त्रयोन्यधिकरणसांख्याधिकरणविरोधपरिहारः.
आनन्ददायिनी नेष्टे तत्सिद्धयसिद्धयोरित्यादि। प्राज्ञव्युदासे प्राज्ञानधिष्ठितत्वेऽनु मानेन साध्यमाने अनुमितिर्नेष्टे न सिध्यति । 'प्राज्ञः सिध्यति नेति प्राज्ञसिद्धयसिद्धिभ्यां व्याघातात् प्राज्ञानाधिष्ठितत्वसाधने प्राज्ञाधिष्ठितत्वं साहचर्यादेव साधयितुं शक्यमिति सत्प्रतिपक्षः म्यादित्यर्थः। सूत्रकर्तुरिति ‘जनिकर्तुः ' इति ज्ञापकात् समासः ॥ २४ ॥
शास्त्रयोन्यधिकरणसांख्याधिकरणविरोधपरिहार:.
1 सिध्यतीत्यर्थः-ग.
2 'प्राज्ञ. सिध्यति नेति' इति ग-कोशे न दृश्यते.
8*