________________
114
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः प्राज्ञाधिष्ठानशून्यं न तु 'परिणमितुं शक्तमव्यक्ततत्त्वं
सर्वार्थसिद्धिः इत्याप्तोक्तिः कथम् ! इत्थम् -श्रवणमननध्यानानां योगहेतुत्वस्य विवक्षितत्वात् । मननं चात्रानुग्राहकयुक्तिभिः स्थिरीकरणम् ; तदेवात्र श्रवणानन्तरभावितयाऽनुमानशब्देन ग्रहीतुमुचितम् ; अनुग्राहकयुक्तय एव वा ; “ यस्तकेंणानुसन्धत्ते " इति स्मरणात् । तर्कानुमानयोरदूरविप्रकर्षात्समाख्याविपर्यासश्च दृष्ट इति ॥ २३ ॥
इति ईश्वरानुमानभङ्गः.
तथाऽपि सांख्याधिकरणविरोधः स्यात् । तत्र हि परोक्तानां पक्षदृष्टान्तभूतानामचेतनानां संप्रतिपन्नवत् प्राज्ञाधिष्ठितत्वं सूत्रभाष्याभ्यां साध्यते। अतश्शास्त्रयोनित्वसूत्रमन्यपरं नेतव्यमिति शङ्कायां तावद्विरुद्धोक्तिमनुवदति-प्राज्ञेति। तात्पर्यवृत्त्या विरोध शमयति
आनन्ददायिनी तर्केति । 'अनुमानानुगृहीतं च प्रमाणं प्रगल्भते' इति न्यायभाष्यदर्शनादित्यर्थः। यद्वा-- अदूरविप्रकर्षमात्रेण ताच्छब्द्यमित्याहसमाख्याविपर्यासश्चेति । गङ्गायां घोष इत्यादावित्यर्थः । तस्मादुल्लोकभूमेतिमूलस्य लोकविलक्षणमित्यर्थः ॥ २३ ॥
ईश्वरानुमानभङ्गा.
आक्षेपसंगति दर्शयति-तथाहीति । मूलं--
1 परिणमने शक्त-पा. - तात्पर्यगत्या-पा.