________________
सरः ३] ईश्वरस्य शास्त्रैकवेद्यत्वसाधनफलं, ईश्वरानुमानदूषणेऽपि शास्त्राविरोधश्च 113
सर्वार्थसिद्धिः यतया स्वोपस्थापितानुमानेन नित्यशरीरादिरहितत्वं चोपस्थाप्यागमविषयमपहरेत् ।
तस्मादेवंविधा नेकबाधशङ्कापनुत्तये । नित्यनिर्दोषशास्त्रैकवेद्यत्वमिह सूचितम् ॥ शब्दप्रमाणके तस्मिन् यथाशब्दं व्यवस्थितिः ।
सर्वैरनतिलङ्घयेति न शङ्कातकसंभवः ।। नन्वीश्वरानुमानदूषणेविद्याचोरो गुरुद्रोही वेदेश्वरविदूषकः ।
त एते बहुपाप्मानस्सद्यो दण्ड्या इति श्रुतिः ॥ इति शास्त्रविरोधः स्यादिति चेन्न । अनुमानदूषणेऽप्यागमात् तत्सिद्धेः । अन्यथाऽस्मदादिप्रत्यक्षवेद्यत्वनिषेधेन तवापि तद्दषकत्वप्रसङ्गः ।
आगमेनानुमानेन ध्यानाभ्यासवशेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ।।
आनन्ददायिनी नित्यशरीरादिरहितत्वं सर्वदा शरीरशून्यत्वमित्यर्थः। शास्त्रैकवेद्यत्वे नैते दोषा इत्याह-तस्मादिति । कथमेते दोषा न सन्तीत्यत्राह - शब्देति । नन्वीश्वरानुमानदूषणमीश्वराभाववादे पर्यवस्यतीति नास्ति कत्वदोषः स्यादित्याशङ्कय परिहरति-नन्वित्यादिना। आगमादिति। नास्तिकत्वं नास्तीति भावः । ननु ' आगमेनानुमानेन' इत्यनुमानवेद्यत्वं योग शास्त्रसिद्ध विरुध्येतेति शङ्कामनूद्य परिहरतिआगमेनेति। अनुमानशब्दप्रयोगे निमित्तमाह
1 नेकशङ्कानामप-पा. 2 तवापि दूष-पा. 3भ्यासरसेन-पा. 'शाने स्थितं विरु-ग.
SARVARTHA VOL. IV