________________
112
सव्याख्यसर्वार्थसिद्धिमहिततत्वमुक्ताकलापे
(नायक
तत्त्वमुक्ताकलापः शास्त्रानुक्तत्वबाधद्वयपरिहृतये शास्त्रयोनित्वसूत्रम् ॥२३॥
सर्वार्थ मिद्धिः अतः किमत्र तन्निरासप्रयासेनेत्यत्राह-शास्त्रति । यदि जगत्कर्तुरनुमानं न प्रतिषिध्येत तदा मतान्तरप्रामाण्यव्यवसायिनः कस्यचित् 'इदं सर्वमसृजत ' ' यतो वा इमानि भूतानि जायन्ते ' इत्यादिवाक्यानामनुमानमिद्धानुवादित मन्यमानम्य जगत्कर्तृवादिवाक्यानामनुमानविरुद्धोपस्थापकत्वे मूलघातित्वात्, नसिद्धमात्रबोधने नैरपेक्ष्यात्, सिद्धांशेऽनु - मानानाघातासभवाच्च, सिद्धपरवाक्यविमर्शो न कार्य इति मोह म्यात्; अतस्तदनुजिघृक्षयाऽनुमानं निरसनीयम् । किं च विश्वकर्तुरनुमेयत्वं मन्यमानस्य तत्तद्वादिकल्पितैर्हेतुभिर्वाधद्वयमापयेत. 'ब्रह्मण आनन्दः' इत्याद्युक्तप्रामाणिकत्यागात्, अप्रामाणिकायथापूर्ववेद कल्पनस्वीकाराच्च । यद्वा प्रागुक्ताभ्यां प्रतिप्रमाणतकाभ्यां बाधद्वयम् । अथवा अनुमितेम्सोपाधिकत्वादिकारणदोषात् साक्षादकर्तृकत्वानुमानेन साध्यप्रतिषेधाच्च । अपि वा विश्वकर्तर्यनुमान प्रवर्तमानं स्वयं तावन्नित्यप्रयत्न समानन्या
आनन्ददायिनी त्राह-किं चेति । निरतिशयानन्दबाधो वेदनित्यत्वबाधश्चेति द्वयमापद्येत । ईश्वरसाधकस्य तदुपजीविनो वा बलवत्त्वादिति भावः । ननु कर्तृमात्रानुमानेऽपि नोक्तबाधद्वयं, श्रुतिविरोधादित्यनुमान एवं बाघद्वयमित्यभिप्रायेणाह-यद्वति । तथा चानुमानमेव न संभवतीत्यर्थः । । अव्यवधानकारकाप्रकृतपरित्यागन हेतुरित्यभिप्रायेणाह-अथ वेति । किं चानुमानाङ्गीकारे श्रुतेर्बाधः स्यादित्याह-अपि वेति ।
1 व्यवधानकारकाप्रकृत-क.