SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ मरः ३] अर्थान्तरापातादिना नैयायिकर्ममतेश्वरसाधकानुमानान्तरनिरासः 109 सर्वार्थसिद्धिः याम इति चेन्न ; योगिभिरर्थान्तरतापातात् । नित्यसाक्षात्कारिपूर्वकत्वं साध्यमिति चेत् , एवमपि व्याप्तौ नित्यविशेषणवैयर्थ्यमेव । अन्यतो विशेषणसाफल्ये शरीराजन्यत्वेऽपि साफल्यं सिध्येदेव । वेदास्सर्वज्ञप्रणीताः वेदत्वादित्यत्राप्यवमर्थान्तरत्वविशेषणवैयर्थे बोद्धव्ये, प्रणीतत्वनिवृत्तिमात्रेण सर्वज्ञप्रणीतत्वनिवृत्तिमात्रेण वा व्याप्तिग्रहोपपत्तेः । अपि च कवलव्यतिरेकिणस्सपक्षे सत्याभासत्वं संगिरध्वे ! सन्ति चानन्तानि सर्वज्ञप्रणीतानि वेदेतरवाक्यानि भारतादिमध्यपातीनि स्मृतितन्त्ररूपाणि 'कल्पादिषु लोकवेदसंव्यवहारप्रवर्तनौपयिकानि च । न च आनन्ददायिनी तत्तद्विशेषप्रकारकसर्वज्ञानस्य विवक्षितस्याभावात् कथं सिद्धसाधनमिति चेन्न ; प्रमेयवत् सर्वमित्यादौ तथाऽपि सत्त्वात् । ननु तत्तद्विशेषप्रकारकसंशय विरोधिविशेषप्रकारकत्वं विवक्षितमिति चेन्न । तथाऽपि तादृशसंशयविरोधित्वेन तत्प्रसङ्गस्य दुर्वारत्वात् । ननु यावत्संशयविरोधितादृशज्ञानवत्त्वं विवक्षितम् , उक्तज्ञानं तु प्रमेयवन्न वेति संशयविरोधि, न तु तत्तद्विशेषप्रकारकसंशयाविरोधि, न च प्रभेयत्वेन तत्कोटिकस्संशयो वा प्रसिद्धः, येन तद्विरोघितामादायातिप्रसङ्गस्यादिति चेत् । अत्राहु:किमत्र संशयमात्रविरोधित्वं विवाक्षतम् ; उत समानाधिकरणसंशयविरोधित्वम् ; नाद्यः असिद्धः। अन्यथा संशयमात्रोच्छेदापत्तेः । न द्वितीयः -ईश्वरस्य दोषाभावेन संशयाभावात् बाधापत्तेः । न समानकालेन संशयासामानाधिकरणज्ञानपूर्वकत्वं साध्यं, तथात्वेऽप्यप्रसिद्धेस्तादवस्थ्यात् सर्वविशेषणवैयर्थ्याच्चेति । योगिभिरिति । योगजधर्मजन्यसाक्षात्कारसत्त्वादिति भावः । स्मृतीति । स्मृतिर्विष्णुस्मृतिरित्येके। स्मृतीतितन्त्रविशेषणम्। पञ्चरात्रादीत्यपर। कल्पादाविति। घटादिशब्दव्युत्पादनार्थ प्रयोज्यप्रयोजकभावेन प्रयुक्तानि कल्पादो लोक-पा. 2 विरोधावेशेष-ग. विवक्षितम् , उत प्राज्ञाना तु प्रमेयवन्न वेति संशयविरोधितत्तद्विशेषप्रकारकसशयविरोधित्व, नाद्यः-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy