SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 108 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः व्यर्थविशेषणत्वमर्थान्तरत्वं च केवलव्यतिरेकिणां सर्वेषां द्योत्यते । तथाहि ; सर्व कार्य सर्ववित्कर्तृपूर्वकं कादाचित्कत्वादित्यत्र व्यतिरेके कर्तृपूर्वकत्वनिवृत्त्यैव कादाचित्कत्वनिवृत्तावुपपन्नायां किं सर्वविद्विशेषगेन ? सिद्धसाधनत्वनिवृत्त्यै तद्ह इति चेन्न । शरीराजन्यत्वहेतावसिद्धिपरिहारे विशेषणं समर्थमिति वदन्तं प्रति एकामसिद्धिं परिहरतो द्वितीयापत्तेरिति युष्मदुक्तस्यात्र दुर्वारत्वात् । तर्हि कर्त पदं हित्वा सर्ववित्पूर्वकामित्येतावदुक्तौ न वैयर्थ्यमिति चेत् , तथाऽपि वित्पूर्वकत्वनिवृत्त्या व्याप्तिसिद्धौ सर्वविशेषणवैयर्थ्य मेव । एवं नित्यज्ञानपूर्वकत्वादिनिर्देशेऽपि द्रष्टव्यम् । न च विशेषणेऽपि सिद्धसाधनतापरिहारः, सर्वेषां चेतनानां सर्वशब्दार्थवेदिनामसर्ववित्त्वायोगात् ; अन्यथा सर्ववित्साधनस्यापि दुश्शकत्वात् । विशेषतस्सर्वं न सर्वे विजानन्तीति चेन्न ; विशेषाणामपि सर्वशब्दसंग्रहात् । सर्वसाक्षात्कर्तपूर्वकत्वं साध आनन्ददायिनी दूषणमेव विशेषस्यापि दषणमिति भावः । कथमत्र व्यर्थविशेषणत्वमित्यत्राह-तथा हीति । सर्ववित्त्वेनेश्वरसिद्धिरिति भावः । तथाऽपीति । तथा च नेश्वरसिद्धिरिति भावः । ननु नित्यज्ञानवत्पूर्वकं कादाचिस्कत्वादिति व्यतिरेकप्रयोगेन जीवे नान्यथासिद्धिरित्यत्राह-एवमिति । नित्यत्वादेर्व्यर्थत्वादिति भावः । सर्ववित्पूर्वमित्यत्रैव पक्षे सिद्धसाधनमित्याह-न च विशेषणेऽपीति । सर्वशब्दस्य समस्तवस्तूपस्थापकत्वादिति भावः । अन्यथेति । साध्यज्ञानस्य तद्विशेषज्ञानाभावादसंभवेन * व्याप्तिग्रहायोगादिति भावः । ननु विशेषेण सर्ववित्पूर्वकत्वे साध्ये न सामान्येन सर्वविदमादाय सिद्धसाधनमिति शङ्कतेविशेषत इति । विशेषाणामपीति । ननु सर्वत्वेन सर्वविशेषज्ञानेऽपि 1 पदं त्यक्ता-पा. 2 भवे तद्वयाप्ति-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy