SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सरः ३] केवलव्यतिरेकिदूषणमार्गेणेश्वरसाधकानुमानान्तरदूषणम् 107 तत्त्वमुक्ताकलापः सर्वस्यावीतहेतोरपि च निरसनं द्रक्ष्यसि स्व. प्रसङ्गे सर्वार्थसिद्धिः किंच परदेहस्थलिङ्गानामन्यथासिद्धिकल्पने । स्वदेहेऽपि तथैवेति नैरात्म्यमवशिष्यते ॥ आगमादात्मनां सिद्धावीश्वरस्य तु किं पुनः । परात्मनिश्चयाभावे त्वागमोऽपि न सेत्स्यति ॥ २२ ॥ अथ स्यात्-अन्वयिनि हेतौ यावत्सपक्षान्वयिधर्मसंभवेन सोपाधिकता शङ्कयेत । केवलव्यतिरेकिणि तु सपक्षाभावान्न तच्छकेति, अत आह-सर्वस्येति । स्वप्रसङ्गे-हेतुचिन्तावसरे । अयं भावः आनन्ददायिनी 1 मित्यत्राह-किं च परदेहेति । - स्वस्मिन्नपि देहप्राणादिभेदस्यास्फुटत्वात् ; यदि स्फुटत्वं तादृशस्य परत्राप्यनुमातुं शक्यत्वादिति भावः । यदि वेदात् जीवात्मनिश्चयः तहीश्वरोऽपि तत एव निश्चतुं शक्य इति नानुमेयता । यदि परो वेदान्न सिध्येत् 'तुल्यन्यायाज्जीवोऽपि ततो न सिध्येदित्याह-आगमेति । कचित्तु-आगमोऽपि न सेत्स्यति-आगमः कुत्रापि प्रमाणं न स्यात् , तुल्यत्वादित्याहुः ॥२२॥ आक्षेपसंगतिमभिप्रेत्याह-अथेति । हेतुचिन्तावसर इति । बुद्धिसरेऽनुमानचिन्तावसर इत्यर्थः । ननु तत्र केवलव्यतिरेकिमात्रं दूषितं न त्वीश्वरसाधकव्यतिरेकीत्यत्राह-अयं भाव इति । सामान्य___1 मित्याह-ग. 2 स्वस्मिन्नपि भेदप्राणादि ३ स्फुटत्वं तदा ताद-ग. 4 तुल्यन्यायतया जीवोऽपि--ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy