SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 106 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः कर्तृकतया वा व्याप्तिरवच्छिद्येत, तदा हृदयविसंवादः ; चेतनान्तरानुमानाभावे व्युत्पत्तिरेव न स्यात् ; कुतश्शिष्याचार्यवादिप्रतिवादिशत्रुमित्रादिसंव्यवहारः? न च स्वेनान्यदेहादेरधिष्ठानादिसंभवः । सौभरिन्यायतस्तत्तत्प्रतिसन्धिप्रसङ्गतः ।। न च स्वान्यानुमानेऽपि विजातीयत्वकल्पना । निरुपाधिकता तत्र भवेदनुमितेस्ततः ॥ तुशब्दः कल्पनागौरवनिवत्त्यर्थः, उक्तबाधकतर्कसूचनार्थो वा । आनन्ददायिनी हृदयविसंवाद इति । स्वानुभवविरोध इत्यर्थः । तथा च स्वशरीरचेष्टायां चेष्टात्वेन सात्मकत्वेन प्रयोज्यप्रयोजकत्वग्रहो दण्डघटादिवत् , तथा च परशरीरेऽप्यात्मानमानं तस्मिंश्च पर्वतीयवहाविव भेदश्च सिध्यतीत्याह-चेतनान्तरेति। ननु स्वान्यानुमानमयुक्तं, तथा व्याप्त्यभावादित्याशङ्कय स्वेनात्मवत्त्वानुमानमप्ययुक्तं, तथा व्याप्तिविरहादित्याहन चेति । यद्यपि नोभयथाऽपि व्याप्तिः । तथाऽप्यन्यथानुपपत्त्या भेदसिद्धिरिति भावः । ननु तर्हि क्षित्यादावपि जीवविलक्षणानुमानप्रसङ्ग इत्यत्राह-न चेति । यद्यपि भेदस्सिध्यति, न तु शरीरादिनिरपेक्षत्वा'दिवैलक्षण्यं व्याप्त्यभावात् दृश्यमानव्याप्तिविरोधाच्चेति भावः । बाधकाभावमानं स्वयं न साधक मित्यभिप्रायेणाह-उक्तबाधकेति । केचित्तु-सूचनार्थो वेत्यत्र वाशब्दश्चार्थ इत्याहुः । ननु देहादिव्यापारश्शरीरप्राणादिभिरेवान्यथासिद्ध इति न परदेहेनात्मसाधन 1 दिति वैर-क, मित्याञ्चयेनाह-ग,
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy