________________
सर. ३]
ईश्वरानुमानासंभवेऽपि जीवान्तरानुमानसंभवोपपादनम्
105
तत्त्वमुक्ताकलापः निरुपधिकतया स्यात्परात्मानमा तु ॥ २२ ॥
सर्वार्थसिद्धिः च्छेदार्थं हि विशेषणाम् , तथा सति पक्षेतरत्वमप्युपाधिः स्यादित्यत्रोक्तं न चेति । नात्र पक्षान्यत्वेऽतिप्रसङ्गः, उपाघेस्साध्यसमव्याप्तिस्वीकारपक्षे अन्वयव्यतिरेकिणि पक्षेतरत्वस्य साध्यातिव्याप्तत्वात्, केवलान्वयिनि साध्यसमव्याप्तत्वेऽपि पक्षतरत्वान्यत्वेनाप्युपाविशेषणात्, अन्यथाऽनुमानोऽच्छेदप्रसङ्गात् । इयमेव साध्यव्यापित्वमात्रमुपाघेरपेक्षितमिति पक्षेऽपि गतिः । ईदृशं चेद शरीरजन्यत्वमिहोपाधिः स्यादेवेति । पक्षेतरत्वे तूपाधौ पूर्ववदेव 'पक्षादिव्यवस्था भज्येत, इह तु न तथेत्याह--पक्षादीति । ईश्वरानुमानाभावे तद्वत्स्वेतरात्मानुमानमपि न स्यात् , स्वात्मसाध्येष्वेव व्याप्तिनियमप्रसक्तेरित्यत्राह --निरुपधिकतयेति । यदि परशरीरस्थलिङ्गैः कर्तुर्भोक्तुश्चानमाने स्वशरीरस्थतया स्व
आनन्ददायिनी . साध्यातिव्याप्तत्वात् साध्यापेक्षया व्याप्यत्वाभावादित्यर्थः । केवलान्वयिनीति । यद्यपि तत्रापि पक्षेतरत्वस्य पक्षे साध्याव्यापकं तथापि पक्षादन्यत्र साध्यसमव्याप्तिनिश्चयादनुमानप्रतिबन्धः स्यात् ; अन्यथा निषिद्धत्वादावपि पक्षे साध्यसंदेहेनोपार्दूषक ता स्यादिति भावः । अन्यथेति। ननु * बाघोन्नीतस्य पक्षेतरत्वस्योपाधित्वाविरोध इति चेत्तदितरपक्षेतरत्वस्योपाध्याभासत्वे तात्पर्यादिति भावः । ननु स्वेतरानुमानवदीश्वरानुमानमपि स्यादित्यभिप्रायेण शङ्कते ----- ईश्वरेति ।
1 पक्षादिस्थव्य-पा. 2 पक्षे साध्यव्यापन-क. ४ ता न स्यादिति क. 4 बाधोनीतस्योपाधित्वाविरोध-क । नन्वस्येतरानु-क.