________________
104
सव्याख्य सर्वार्थसिद्धिसहिततस्व मुक्ताकलापे
तत्त्वमुक्ताकलापः
स्यान्न चातिप्रसङ्गः पक्षादिस्थित्यबाधा
[नायक -
सर्वार्थसिद्धिः
नन्वेवमदृष्टचरसौघादिदर्शने सावयवत्वात् कार्यत्वमनुमाय तत एव तदुचितकर्तृमत्त्वानुमानं कुलालादिपूर्वकत्वनिवृत्त्या बाध्येत प्रतिरुध्येत वेति मन्दशङ्कां वारयति -न चेति । व्याप्तितदभावाभ्यां विशेषादिति शेषः । यद्यव्यापकधर्मस्य निवर्त्यतया प्रत्यवस्थीयेत, तदा सर्वत्र तस्याः सुलभत्वात् क्वचिदप्यनुमाने पक्षो न स्यात् । साध्यवत्तया वर्ण्यमानो हि पक्षः । तदभावे तत्मापेक्षौ सपक्षविपक्षावपि न स्याताम् ; ततोऽनुमानकथैवोत्सीदेत् । प्रस्तुतेऽपि नैवं प्रसङ्गः, तद्व्याप्ते रुक्तत्वादित्याभि। प्रायेणाह - पक्षादीति । यद्वा शरीरजन्यत्वमुपाधिरित्यत्र पक्षव्यव
आनन्ददायिनी
1
मन्दशङ्कामिति । ' दृष्टसाजात्यात्तत्रैव किंचिदुत्कर्षमात्रे तद्विरोधाभावात् क्षित्यादौ तु दृष्टकारणत्यागो ज्ञानादीनां दृष्टविरुद्धनित्यत्वकल्पनं चेति मन्दतेति भावः । अन्यत्रापि गोपुरादौ कर्तृसिद्धिर्न स्यादित्यत आहयदीति । कुलालस्वम्य शरीरादिवत् कर्तृताप्रयोजकत्वाभावात् तद्व्यावृत्तेर्न कर्ततानिवृत्तिरिति भावः । ननु साध्यव्यावृत्त्या पक्षतानिवृतिरित्यवाह - साध्यवत्तयेति । सिसाधयिषित साध्यवतः पक्षत्वादिति भावः । तदभाव इति । सर्वस्यापि तदर्थत्वादिति भावः । उपाध्युद्भावनप्रसङ्गे उपाध्युद्भावनमेवोचितमित्यभिप्रायेणाह - यद्वेति ।
1 मन्दसाजात्या - क 2 व्यावृत्त्या कथं पक्षता - क.
-