________________
110
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[नायक
mm
सर्वार्थसिद्धिः तेषु वेदत्वम् , प्रसिद्धिविरोधात् , अवेदत्वेनैव महर्षिप्रभृतिभिर्व्यपदेशाच्च । अतस्तेषां न वेदत्वेन पक्षीकरणं शक्यम् । संग्राहकान्तरं च दुर्वचम्। जीवेतरवाक्यत्वमीश्वरप्रोक्तत्वं वा नान्यतस्सिद्धम्। इत एव तत्साधनेऽन्योन्याश्रयः ; तदिह तेषां पक्षीकारे तदभावे वा वेदत्वहेतुस्तेष्वसिध्यन् हेत्वाभासकक्षां नातिकामेत् । एवं वक्ष्यमाणैश्च वेदनित्यत्वसाधकैर्बाधोऽप्यत्र मन्तव्यः । एवं घटः सर्वज्ञकर्तकः घटत्वात् , यजुः सर्वज्ञकर्तृकं यजुष्टादित्यादिविशेषपक्षीकारेण प्रयोगाश्च निरस्ता वेदितव्याः । ननु कार्याणां सर्वेषां सर्वज्ञपूर्वकत्वव्याप्तिः श्रुत्या सिध्यति । अविदितनिगमवृत्तान्तानां नालिकेरद्वीपवासिनामिव वह्नौ महेश्वरे मा भूदनुमानम् , अन्येषां तु तत्प्रवृत्तिसंभव
आनन्ददायिनी घटमानयेत्यादीनीत्यर्थः । नन्वीश्वरसिद्धेः पूर्वं पूर्वज्ञप्रणीतत्वमसिद्धमिति कथमसाधारण्यमिति चेन्न । तर्हि तद्वदेव सर्वज्ञाप्रणीतत्वेऽप्युपपत्तेरप्रयो. जकत्वात् साध्याप्रसिद्धेश्चति भावः । संग्राहकान्तरं चेति । नन्वीश्वरप्रणीतत्वादिकं संग्राहकमिति चेत्, न । तत्सिद्धेः पूर्वं तदसिद्धेः ; तदाहजीवेतरेति। आश्रयासिद्धिमुक्त्वा स्वरूपासिद्धिमाह---तदिहेति । अत्र किं सर्वज्ञप्रणीतत्वं हेतुरुत वेदत्वं स्वरूपासिद्धेः। न द्वितीयःभागासिद्धरसाधारण्यवदाभासत्वं दुर्लङ्घमित्यर्थः । वक्ष्यमाणैरिति । बुद्धिसर इति शेषः । ननु निगमजन्यज्ञानरहितानां व्याप्तिज्ञानाभावास्कथमीश्वरानुमानमित्यत्राह--अविदितेति । नाळिकरद्वीपे वढेरप्रसिद्धेः न तत्र वयनुमानमिति भावः ।
1 जीवप्रणीतेतर-पा. 2 भासत्व नाति-पा. 3 सर्वज्ञप्रणीतं यजु-पा. 4 पूर्व सर्वशप्रणीत सिद्ध कथ-क. 5 सर्वार्थसिद्धिगत इवशब्दो 'वह्रौ' इलनन्तर योज्य इत्याशयः.