SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 96 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः विशेषस्सुकृतविषमिता जीवशक्तिस्तु सिद्धा॥२०॥ सर्वार्थसिद्धिः दृष्टान्तानुरोधेन व्यवहितव्यापारादपि ' कर्तृत्वं ब्रूमः ; भवद्भिस्त्वदृष्टचरमेव वैषम्यं कल्प्यत इति । अथ स्यात् , कुम्भादिकृदसंभावितो गोपुरादिकर्तृषु बुद्धिशक्तिप्रकर्षों दृष्टः ; मनुष्यासंभावितश्च शकुन्तलूतादिजन्त्वन्तरेषु ; मनुष्येषु च विश्वामित्रादिषु ; एवं देवासुरसिद्धा. दिषु पितामहपर्यन्तेषु , इति स्थिते बुद्धिशक्तिप्रकर्षतारतम्यस्य कचिद्विश्रमाद्यत्रासौ स ईश्वरस्से मर्हतीति तत्राह -सुकृतेति । कर्मभेदतन्त्रमेव तारतम्यं त्वया निदर्शितम् । जन्मौषधिमन्त्रतपस्समाधिजाश्च सर्वास्सिद्धयस्तत्तददष्टेष्वायतन्ते । एवं सत्यदृष्टाधीनधीशक्तिप्रकर्षतारतम्यं कालभेदेन कर्मवश्येष्वेव केषुचिद्भवतु; न विश्रमस्थानान्तरं मृग्यमिति भावः ॥ २०॥ __ आनन्ददायिनी विशेष इति वाच्यम् ; भत्याचव्यापारवदप्रयोजकत्वादिति भावः । अदृष्टचरमिति । कचिदपि नित्यज्ञानादेरभावात् ज्ञानत्वाद्यवच्छेदेन जन्यत्वावधारणादिति भावः । शकुन्ते नभसि गतिः, लूते स्वोदरात्तन्तुसृष्टिः तन्निगरणं च, आदिशब्देन गजकपित्यादि गृह्यते । विश्वामित्रादिग्वित्यादिशब्देन वसिष्ठादिग्रहः । बुद्धिशक्तिप्रकर्षतारतम्यस्येति । उक्तप्रकर्षतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वात्तेजःप्रकर्षतारतम्यवदित्यनुमानेनेति शेषः। कर्मभेदति। तथा च सपक्षदृष्टवैजात्यं न साधयितुं शक्यमिति भावः । अत इति । विश्रमस्थानं यत्नस्य हि जगत्कर्तृत्वं वाच्यम् ; स हि कर्मवश्येषु कश्चिज्जीव इति न नियत एकस्तत्कर्ता सिध्यति । एतेन-यो जगत्कर्ता स एवेश्वर इति निरस्तम् , तस्यैकत्वासिद्धेरिति भावः ॥२०॥ 1 निमित्तत्व-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy