SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सरः ३] कर्तृमिन्नकारकान्तरैः कार्यसभवात्तार्किकसमतसकर्तृकानुमानदूषणम् 97 तत्त्वमुक्ताकलापः कार्य स्यात् कञभावेऽप्यवधिभिरितरैः कालवत्स ह्यमिद्धः सर्वार्थसिद्धिः अथात्र परेष्टं विपक्षे बाधं दूषयति-कार्यमिति । एवं हि मन्यते-कारणाभावे कार्याभाव उभयाभ्युपेतः ; कारणान्तराणि च कपहितमर्यादानि कथं कत्रभाव व्याप्रियेरन् ? अतः कार्यस्य सांख्यसौगतचार्वाकवर्तन्या नित्यत्वमसत्त्वमाकस्मिकत्वं वा स्यादिति, तत्रेदमुत्तरम् – कार्यमिति । अयं प्रतिविधिः-कारणाभावे कार्य न स्यान्न तु कारणविशेषाभावे ; अन्यथा कचिद्दष्टस्य कर्मकारकादेरभावेऽपि क्रियानुत्पत्तिप्रसङ्गात् ; अन कञभावेऽपि कारणान्तरेः कार्यसिद्धयुपपत्तिरिति । ननु कालो यथा सर्वकार्यनिमित्तं तथेश्वरोऽपि ; तत्परित्यागे समानन्याय कालोऽपि त्यज्यतामित्यत्राह -कालवदिति । 1 कालो ह्युपाघिविशेषातिरिक्तो न वेति यथामतमन्तु ; स तावल्लोकनास्त्रसिद्धः, कालप्रतीक्षया कर्षकादिप्रवृत्तः. काले कर्मचोदनात् , शुभाशुभकालविभागे च कस्यचिद्वेदाङ्गस्य व्यापारात् । आनन्ददायिनी आक्षेपसङ्गतिमाह-अथेति। कथं कत्रभावे व्याप्रियेरनिति । अव्याहतानां जनकत्वाभावादिति भावः । नित्यत्वं सांख्यानां, असत्त्वं बौद्धम्य । आकस्मिकत्वमहेतुकत्वं, तच्चार्वाकम्य । कालो हीति । नन्वत्रापीश्वरशब्दवाच्यः प्रसिद्ध इति चेत् , न, जीवानामेवेश्वरशब्द. वाच्यत्वनोपपत्ते । किञ्च यत्किंचित्प्रसिद्धिमात्रेण न निमित्तकारणत्वं, आकाशादेरपि प्रसङ्गात् । किन्तु तत्कारणताग्राहकप्रमाणेन, न चात्र तदन्तत्यिाह-कालप्रतीक्षयेति । अनेनान्वयव्यतिरेको श्रुति 1 कालोऽप्युपाधि-पा. 2 निमित्तत्वं-ग. SARVARTHA VOL. IV
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy