SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सरः ३] अनुमानाजीवातिरिक्तकर्तृसाधनेऽनिष्टापादनम् 95 तत्त्वमुक्ताकलापः कल्प्योऽन्यस्ते सर्वार्थसिद्धिः त्वविशेषसाधनं तु दुश्शकम् , तादृशविशेषासंभवेऽपि जीवानामेव तत्कर्तृत्वस्य दर्शितत्वात् , तेषामेव तद्विरुद्ध विशेषानमानायोगाच्च । ननु घटादिकर्तृव्यावृत्तो विशेषः क्षित्यादिकर्तृणां स्वीकार्यः, तदुत्पत्त्यासन्नपूर्वकाले तेषां तदनुगुणबुद्धयादिरहितत्वात् । अतो दृष्टविपरीतक्लप्त्यविशेषे किमीश्वरक्लप्तिप्रद्वेषेणेत्यत्राह-कल्प्य इति । अयं भावः--निश्वासादावधीपूर्वयत्नेनापि कर्तृत्वं त्वयैष्टव्यम् , कालविप्रकृष्टबुद्धयाऽपि कर्तृत्वमाभिचारिकपरपीडादौ लोकवेदसिद्धम् । कुम्भाद्युत्पत्तावपि कुम्भकारादेश्चक्रचीवरदण्डसूत्रादिव्यापारहेतुभूतस्वदेहादिव्यापारे व्यवहितप्रवृत्त्युपयोगः, नान्यथा ; समवायिनिष्पत्तौ वयं आनन्ददायिनी त्त्वसाधनामिति भावः । किं च जीवभिन्ने कतरि विशेषसाध्यते, उत जीव एव कर्तरीति विकल्प्य आद्य आह-तादृशेति । सामान्यानुमाने जीवस्यैव कर्तृत्वेनार्थान्तरस्य दर्शितत्वादाश्रयासिद्धिरिति भावः । द्वितीय आह-तेषामवेति। जीवानां खभावविरुद्धनित्यज्ञानानुमानायोगात् बाध इति भावः । ननु कल्प्यत्वं भवतामप्यविशिष्टमिति चेत्तत्राह-अयं भाव इति । नास्माभिर्दृष्टविरुद्धं कल्प्यते, किं तु दृष्टसजातीयमेव सद्वारककर्तृत्वं ज्ञानादिरहितजन्ययत्नवत्त्व चेति भावः। अव्यवहितप्रवृत्तिः- अव्यवहितयत्नः। नान्यसमवायीति । अन्यसमवेतघटाद्यवयविनि न साक्षादुपयोग इत्यर्थः। तथा च व्यवहितयत्नवतोऽपि कुलालादेः कर्तृत्वं घटादौ दृष्टम् । 'न चादृष्टाद्वारकत्वं 1 न च दृष्ट-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy