SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 94 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः पक्षधर्मतया हि व्यापकस्य प्रागविदितो धर्मिविशेषसंबन्धस्सिध्येत् ; न तु सदपि सपक्षदृष्टवैजात्यम्, अन्यथा धूमानुमिते वह्नौ तार्णतादिविशयविलोपप्रसङ्गात् । सपक्षदृष्टान्यतामात्रमपि नानुमेयनियतम् , जातिव्याप्यैर्जात्यनुमाने तदनभ्युपगमात् । अतो नात्र व्याप्यपक्षधर्मतया विव. क्षितविशेषसिद्धिः । परिशेषात्तर्हि तसिद्धिरिति चेन्न, परिशेषानुमानमपि हि क्षित्यादिकं सामान्यतस्सिद्धं तत्कर्तारं वा पक्षीकृत्य स्यात् ? आये किञ्चिज्ज्ञकर्तृकत्वनिषेधो वा ? स्वतस्सर्वज्ञकर्तृकत्वं वा साध्यम् ? नाद्य - तत्संभवस्य स्थापितत्वात् । न द्वितीयः-तद्धि कृत्वं कार्य पक्षीकृत्य कार्यत्वलिङ्गेन वा साध्यम् ? प्रकृतपक्षमात्रनिष्ठेन वा केनचित् । पूर्वत्र किमन्वयि पुरस्कारेण, व्यतिरेकिण एवास्य युष्माभिः पृथगुपन्यासात् । अत एव कार्यविशेषतोऽपि सर्वज्ञानुमाने तेनैवालं किमन्वयिना कार्यलिङ्गेन ? क्षित्यादिकर्तृपक्षीकारेण जीवासंभावित आनन्ददायिनी पक्षाभावादाश्रयासिद्धिरिति भावः । धर्मिविशेषसम्बन्धः पक्षीयत्वम् । अन्यथेति। पक्षीयत्वातिरिक्तमपि सिध्यति चेदित्यर्थः । सपक्षदृष्टव्यक्तिभेदोऽपि नानुमानेन सिध्यति, दूरे तद्वैजात्यमित्याह-सपक्षदृष्टेति । कचित्तत्सिद्धिर्मानान्तरादिति भावः। नन्वल्पज्ञानां कर्तृत्वबाधे परिशेषात् सिद्धिरिति शङ्कते-परिशेषादिति । आये-क्षित्यादिसकर्तृकानुमाने। तत्सम्भवस्येति । अनुपपत्तिघटितलिङ्गस्यासिद्धेरित्यर्थः । बाधो दोष इत्यपरे । व्यतिरेकिण इति । कार्यमात्रस्य पक्षत्वेन सपक्षामावाद्यतिरोकत्वम् । अनेन कर्तृसिद्धेराधमन्वय्यनुमानं व्यर्थमिति भावः । द्वितीयं दूषयति-अत एवेति। "किमन्वयिनेति । एकदैव विशिष्टकर्तृत्वसिद्धेरिति भावः। प्रथमविकल्पे द्वितीयं शिरो दूषयति-क्षित्यादिकर्तृपक्षीकारणेति। जीवासम्भावितनित्यज्ञानादिम 1 चेत्यर्थः-क. 2 अनेनैव-ग. किमन्वयिनैवेति-ग,
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy