________________
सरः ३]
अनुमानतो जीवातिरिक्तकर्तृकल्पनेऽनिष्टप्रसञ्जनम्
93
तत्त्वमुक्ताकलापः न कथमपि भवेद्व्याप्तिसिद्धिः परत्र ।
पक्षस्पर्शाद्विशेषान्न खलु समधिकं पक्षधर्मत्वलभ्यं
सर्वार्थसिद्धिः अतस्तेषामेव क्षित्यादिकर्तृत्वमविरुद्धम् । उत्तरं दूषयति-न कथमपीति । न हि कुम्भादिसामग्रयन्तर्गतं सर्वं कुम्भकारादयो जानन्ति । योगिनां स्वकार्यसामग्रीसाकल्यज्ञानमस्तीति चेत् , किमतः ! योगसिद्धसार्वज्ञया अपि हि न कुतश्चित् कल्पयितुं शक्यन्ते ; अतो न तत्कायैस्सपक्षसिद्धिः ; आगमतस्सिद्धौ तु तद्वदीश्वरोऽपि तदनुविधेयस्सिद्ध इति नानुमेयं किञ्चित् । अस्तु व्याप्त्या कर्तृमात्रमुपस्थाप्यम् , पक्षधर्मताबलात् सार्वश्यादिविशेषसिद्धिरित्यत्राह-पक्षेति। व्याप्यस्य
आनन्ददायिनी यणुकादिकार्योपादानज्ञानं नास्त्येवेत्यत्राह-अत इति। अयं भावः-- अत्र किं लोकव्यवहारसिद्धस्साध्यते, उत पारिभाषिकः । नाद्यःकार्यानुकूलज्ञानवत एव कर्तृत्वात् । न द्वितीयः-शब्दादौ व्यभिचारात् , 1 गायतो गानकर्तृत्वव्यवहारात्तदतिरिक्तकर्तृत्वे चाप्रयोजकत्वात् । न हि कुम्भादीति। तथा च व्याप्यत्वासिद्धिरिति भावः। ननु योगिजन्यकार्य सपक्षः, तदन्यत् सर्वं पक्ष इति न व्याप्यत्वासिद्धिरिति शङ्कते-योगिनामिति । एवमप्यसिद्धिदूषणं न परित्यक्तमित्याहकिमत इति । अत्र किमनुमानासद्धं योगिनं मत्वा आशङ्कोतागमसिद्धमिति विकल्प्याद्य आह--योगसिद्धेति । तत्रापि व्याप्तिग्रहेऽनवस्थापातादिति भावः। द्वितीयं दूषयति-आगमत इति । तथा च
1 यावतो पानकर्तृत्वव्यव--क 2 चप्रयोजकाभावात्-क.