SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः भावेऽपि कुम्भादिकर्तृत्वं सर्वानुमतम् । व्यणुकप्रभृतिजगदुपकरणं च यागादि जानन्त्येव जीवाः । तच्छक्तेरस्य वा साक्षात्काराभावेऽपि कुम्भादिन्यायाद्यागादिप्रवृत्तिरिष्टा । संप्रदानं च भोक्तारं स्वात्मानमात्मीयान् वा प्रयोजनं चेष्टप्राप्तिमनिष्टनिवृत्तिं वा न हि ते न जानीयुः । आनन्ददायिनी यणुकादि यद्यपि न कारणं, तथाऽपि प्रयोजकत्वमत्र विवाक्षितमिति भावः। ननु यत्किचिदुपकरणज्ञानमेव विवक्षितं लाघवात् , तच्च घटकर्तरि विद्यत एव । 'व्यणुकादौ तु तदभावात् जीवस्य कथं कर्तृत्वमित्यत्राह-घणुकेति । वागादेस्सर्वकार्योपकरणत्वादिति भावः । ननु फलज्ञानं तत्साधने प्रवर्तकम्, तज्जन्यादृष्टस्य ज्ञानाभावे कथं तस्य प्रवृत्तिः, अप्रवृत्तस्य वा कथं कर्तृत्वमित्यत्राह-द्वारस्य वेति । अदृष्टस्य तज्जन्यत्वेऽप्यफलत्वात् तदज्ञानेऽपि प्रवृत्तिस्संभवत्येवेति भावः । अत्र कुम्भादिज्ञानान्मृदादिप्रवृत्तिदृष्टेत्येव पाठः । यागादिप्रवृत्तिरिति लेखकप्रमादकृत इत्याहुः । केचित्तु यागादेरदृष्टद्वारा कुम्भादिप्रयोजकत्वमभिप्रेत्येदमित्याहुः। कार्यप्रयोजकत्वाविशेषाद्यत्. कांच तदानुकूल्यज्ञानं सर्वसुलभमित्यर्थान्तरं सुलभमित्याह-संप्रदानं चति । यद्यपि सम्प्रदाने न घटप्रयोजकत्वं, तथाऽपि तत्फलत्वनिर्वाहकमिति फलेऽन्तर्भाव इति भावः। प्रयोजनं चेति। घटस्य प्रयोजनमित्यर्थः । ननु कार्योपादानज्ञानवत्त्वमेव कर्तृत्वं जीवानां, 1 घ्यणुके त-ग. 2 द्वारस्य चेति-क. 3 यागादेदृष्टद्वारा-ग. 4 त्तदनुकूलज्ञानं-ग. दानादेर्न-ग. घटप्रयोजनं-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy