________________
सरः ३]
अनुमानतो जीवातिरिक्तकर्तृसाधनेऽनिष्टप्रसङ्गकथनम्
91
w
ArAAR
तत्त्वमुक्ताकलापः पक्षेऽपीत्यव्यवस्था यदि विफलतया त्यक्तिराद्येऽपि सा स्यात् ॥ १९ ॥
साध्यो हेत्वादिवेदी मत इह कलया सर्वथा वा तवासौ पूर्वत्रेशो न सिध्येत
सर्वार्थसिद्धिः व्यवस्था भज्येतेति । अत्र परोक्तं कल्पनागौरवं शङ्कते---यदीति । एकेनेश्वरेण विश्वकार्यसिद्धौ द्वितीयक्लप्तेर्निष्फलत्वात् तत्परित्याग इति । तत्र गौरवभिया त्याग एकस्मिन्नपि स्यादित्याह-आयेऽपीति । उक्तं हि जीवैरेव कर्तृभिरदृष्टद्वारा सर्वकार्य सिध्यदिति ॥ १९ ॥
पुनरपि विकल्पमुखेनानिष्टमाह-साध्य इति । किमत्रोपादानादिज्ञानवन्मात्रं सिषाधयिषितम् , उतोपादानादिकृत्स्नगोचरज्ञानवानिति विकल्पः । तत्राद्यं दूषयति-पूर्वत्रेति । जानन्ति हि जीवा जगदुपादानं पृथिव्यादिद्रव्यम् , कुम्भाधुपयोगिपरमाणुव्यणुकादिज्ञाना
आनन्ददायिनी प्रतिकूलतर्कपराहतत्वात् न द्वितीयादिसिद्धिरिति चेत् , तस्मादेव क्षित्यादौ कर्तृसिद्धिरपि न स्यादित्याह-एकेनेत्यादिना ॥ १९ ।।
__ प्रसङ्ग एव सङ्गतिरित्याह -पुनरपीति। उपादानादीत्यादि शब्देन निमित्तादिग्रहः । जानन्ति हीति । जगतां देवतिर्यमनुष्यस्थावरादीनामुपादानं पृथिव्यादि जानन्तत्यिर्थः । ननु द्वयणुकादिज्ञानाभावात् कथं जीवस्य कर्तृत्वमित्यत्राह-कुम्भाधुपयोगीति ।