________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः क्लप्तावन्यस्य कर्तृदयमुपनमति त्वत्तपक्षे तथा स्यात्
सर्वार्थसिद्धिः रेव जगदुत्पत्तिसिद्धिरिति सिद्धसाधनता दुर्वारा । जीवातिरिक्तकर्तकल्पनेऽनिष्टं प्रसञ्जयति-क्लप्साविति । एककर्तृकतया प्रसिद्धेः सपक्ष कर्तद्वयं स्यात् , अनेककर्तृकेऽपि संप्रतिपन्नातिरिक्तकर्तृकत्वम् । कल्प्यभानो हि न केवलं क्षित्यादिमात्रकर्तृत्वेन कल्प्यते. तत्प्रयत्नस्य परिच्छेदकाभावेन सर्वविषयत्वात् । ततः किमित्यत्राह-तथेति । अयं भावः-क्षित्यादिकतरि साध्यमाने विश्वका तेन घटादेर्द्विकर्तृकत्वमायातम् , ततस्तदृष्टान्तेन पक्षस्य द्विकर्तृकत्वमापतेत् ; ततम्सपक्षस्य त्रिकर्तृकत्वं स्यात् ; एवं क्रमेणोपर्युपर्यपि क्लप्तावनन्तेश्वरापत्त्या ' द्यावापृथिवी जनयन् देव एकः' 'एकश्शास्ता न द्वितीयः' इति
आनन्ददायिनी यदर्शनमात्रात्कर्तृसाधनं तदाऽतिप्रसङ्गमाह --जीवातिरिक्तेति । अनेककर्तृकेऽपीति । गोपुरादावित्यर्थः । ननु क्षित्यादिमात्रं प्रतिकर्तृत्वात् घटादौ द्विकर्तृत्वाभावेन व्याप्तत्यभावात् कथं घटादिदृष्टान्तेन द्विकर्तृकत्वसिद्धिः, कथं वाऽनवस्थेत्यत्राह-तत्प्रयत्नस्येति । परिच्छेदकस्य कारणविशेषस्याभावादित्यर्थः । ननु सकर्तृकत्वसिद्धिमात्रेण कथमनवस्था म्यात् , तथावे वा वयाद्यनुमानेऽपि प्रसङ्गादित्यत्राह-अयं भाव इति । नन्वस्तूत्पत्तिज्ञप्तचोरविरोधित्वादि त्यत आह--द्यावापृथिवीति। ननु
1 शप्तिविरोधि-ग.
दिव्यत्राह-ग.