________________
सरः ३]
चेतनाधिष्ठितस्याप्यदृष्टस्य प्रवर्तकत्वोपपत्तिः གསས་ཀའ་་་བའ་་་་འ་གཉན་
सर्वार्थसिद्धिः विष्ठितत्वमदृष्टानामित्यङ्गीक्रियेत । ईश्वरधीविशेषमदृष्टमिच्छता त्वया नैवमङ्गीकार्यमिति चेन्न, तथाविधादृष्टे त्वयापि चेतनाधिष्ठेयत्वस्यासाध्यत्वात् । त्वन्मतेऽपि कारणवर्गानुप्रवेशिनो नित्यस्येश्वरज्ञानस्याचेतनस्य चेतनाधिष्ठितत्वकल्पने तादृशचेतनान्तरक्लप्तिप्रसङ्गः ।
इश्वराकूतभेदं च श्रौतादृष्टं यदीच्छसि । नृगुणापूर्वक्लप्तिस्ते निष्फलैव तदा भवेत् ॥
नन्वीश्वरप्रयत्नादेरसिद्धौ न त्वयाऽत्र व्यभिचार उदाहार्यः । तसिद्धौ तद्वयतिरिक्ताचेतनेषु चेतनाधिष्ठाननियमसिद्धिरिति चेदन्येषामपि तर्खदृष्टादिव्यतिरिक्तविषये तन्नियमः स्यात् । अतोऽदृष्टवद्भिर्जीवै
आनन्ददायिनी ज्ञानादिमद्भिश्चेतनैरान्तरामिति भावः । ईश्वरेति । तथा च ' ज्ञानादिमत ईश्वरस्य सिद्धिरिति भावः । तथाविधेति । यद्यपश्विरस्सिद्धः, तथाऽपि व्याप्तेरभावात् परोक्तिर्भग्ना । वस्तुतस्तादृशो वेदान्तादेवास्माभिः सिद्ध इति नानुमानप्रवृत्तिरिति ध्येयम् । त्वया व्याप्तिर्वक्तुं न शक्येत्याह-वन्मतेऽपीति । चेतनाधिष्ठितत्वं विना प्रवृत्तिर्न स्यादित्यनुपपत्तिपरिहारार्थं कल्प्यते, तत्कल्पनेऽपि तादवस्थ्ये किं तत्कल्पनयेति भावः । किं च मदभिमतादृष्टमादाय चेत् ज्ञानादिमानीश्वरोऽस्तीत्युच्यते, तददृष्टस्य चेतनगुणत्वं त्वदभिमतं भज्यतेत्याह--ईश्वरेति । आकूतंअभिप्रायं। श्रौतं श्रुतिसिद्धम् । स एनं पिप्रीषति प्रीणाति' इति श्रुतिः । नृगुणः-आत्मगुणः । अपूर्व-अदृष्टम् । सिद्धयसिद्धिव्याघातं शङ्कतेनन्विति । अन्येषामपीति । कचिच्चेत्तनानधिष्ठितत्वस्यावश्यकत्वे लाघवाददृष्ट एव तथाऽस्त्विति भावः । यदि विपक्षे बाधकाभावेऽपि साहच1 शानवत-ग. 2 एनं प्रीणातीति-ग. 3 चेतनाधिष्ठितत्वस्यावश्यकत्वात्-क.