________________
सरः ३] अदृष्टविशेशजनितयत्नवजीवानामेव क्षित्यादिकर्तृत्वापादनसाधनम्
85
A
तत्त्वमुक्ताकलापः निःश्वासादिप्रयत्नक्रम इह भवतां जीव एवास्त्वदृष्टै
सर्वार्थसिद्धिः धीहि जनयित्री चिकीर्षाया विषयं नियच्छेत् ; सापि तादृशी यत्नस्य । इह तु जनकत्वाभावान्न ततस्तद्विषयनियमः, सामानाधिकरण्यमात्रात्त. 'नियमे जीवेश्वरगुणान्तराणामपि सविषयत्वप्रसङ्ग इति भावः ॥ १८॥
___अस्तु नित्ययत्नवानीश्वरोऽनुमेयः संप्लवाभ्युपगमादवशिष्ट मागमिकं स्यादित्यत्राह-निश्वासेति । जीवनपूर्वकप्रयत्नन्यायाददृष्टविशेषजनितयत्नवद्भिर्जीवैः क्षित्यादेः सकर्तृकत्वसंभवे किं नित्ययत्नतदाधारकल्पनागौरवेण ? यादृशैरेवादृष्टैः शरीरादिनिरपेक्षैस्सहकृत ईश्वर
आनन्ददायिनी ज्ञानस्य स्वतो विषयिता ; तदधीना चिकर्षायत्नयोरिति तदङ्गीकारस्तथाऽपि प्रकृते न तदधीनविषयिता वक्तुं शक्येति तदङ्गीकारो व्यर्थ इत्याह-धीर्तीति । तदधीनविषयितायां तज्जन्यताया एव नियामकत्वादिति भावः । जीवेश्वरेति । क्रियागुणादीनामपि तत्सामानाधिकरण्याविशेषादिति भावः ॥ १८ ॥
ननु श्रुतिविरोधो 1 नास्त्येवेत्याक्षेपिकी सङ्गतिरित्यभिप्रायेणाह-अस्त्विति । संप्लवः-प्रमाणसंवादः । ननु श्रुतेरनुवादकता स्यादित्यत्राह-अवशिष्टेति। ज्ञानानन्दादिगुणविषयतया प्रमाणं स्यादिति भावः। अनुमानेनेश्वरसिद्धौ हि प्रमाणसंप्लवः स्यात् , तसिद्धिरेव नास्तीत्याह-जीवनपूर्वकप्रयत्नन्यायादिति । यादृशैरेवति । यद्यपि नित्ययत्नस्योत्पत्तौ नादृष्टापेक्षा, तथापि कार्यजनने
1 नास्तीत्या-ग. 2 प्रामाण्य स्या-ग.