________________
84
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः यहा धीस्तं हि नित्यं न तु जनयति ते मा कथं तनियन्त्री ॥१८॥
सर्वार्थसिद्धिः लिङ्गम्" इत्याक्षपादी सहपठितिः ‘क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणम्' इति काणभक्षीव कथंचिन्नेया, ज्ञानाद्यत्यन्तायोगव्यच्छेदवन्निष्ठद्रव्यत्वावान्तरजात्याधार आत्मेति । अस्तु तर्हि यत्न. मात्रवानीश्वरः, तथाप्यनुमानं न प्रतिक्षिप्तमिति चेन्न, “ यस्सर्वज्ञस्सर्ववित्' 'तदैक्षत बहु स्यां प्रजायेय,' 'सोऽकामयत बहु स्यां प्रजायेय' इत्यादिश्रुतिशतविरोधादिति । दूषणान्तरमाह-यद्वेति ।
आनन्ददायिनी 1 कर्तृत्वचेतनत्वार्थ त्रितयं भवत्वितीष्टापत्तिरपि परास्ता, यत्नमात्रादेवोपपत्तेरिति द्रष्टव्यम् । क्रियावद्गुणवदिति । यथा सर्वद्रव्याणां क्रियावत्त्वाभावेऽपि सहपाठस्तथा सर्वात्मनां ज्ञानाभावेऽपि सहपाठः स्यात् । अन्यथा ज्ञानेच्छादिवद्देषसुखदुःखादिप्रसङ्ग इति भावः । ननु लिङ्गं ह्यसाधारणो धर्मः, स च लक्षणमेवेति यदि निर्बन्धः, तत्राहज्ञानेति । ज्ञानसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं तदर्थ इत्यर्थः । द्रव्यत्वव्याप्यत्वं ज्ञानसमानाधिकरणत्वं च घटत्वसत्तादिकमादाय घटगुणादौ चातिव्यातिवारकम् । तादृशोपाधिमादाय घटादावेव तद्वारक जातिपदमिति बोध्यम् । यद्यपि कारणनिरपेक्षत्वं यत्नस्य चेदङ्गीक्रियते तर्हि कस्यचित् कार्यस्य कर्तृनिरपेक्षत्वं वक्तुं शक्यं लाघवादित्युक्तमेव, तथाऽपि दूषणान्तरमप्यस्तत्यिभिप्रायेणाह-यस्सर्वज्ञ इत्ति । किं च
_1 कर्तृत्वचेतनार्थ तृतीय-ग.