________________
सरः ३]
विना ज्ञानं यत्नमात्रवत्वेऽप्यात्मलक्षणोपपादनम्
83
सर्वार्थसिद्धिः विषयधर्माणां धीरवप्रसङ्गात् । यस्त्विच्छामनङ्गीकृत्य बुद्धियत्नावीश्वरस्य ब्रने, सोऽपि प्रत्युत्पन्नवादी ; नित्ययत्नमात्रेणापि सर्वकार्यसिद्धेरुक्तत्वात् । अबुद्धिपूर्वप्रवृत्तस्य कथं — स्वतन्त्रः कर्ता ' इति लक्षणयोगः, कथंतरामीश्वरत्वयोग इति चेत् , अनिच्छापूर्वप्रवृत्तस्यापि सममेतत् । अत एव कारकान्तराप्रयोज्यत्वे सति कारकान्तरप्रयोक्तृत्वरूपं कर्तृत्वं कथमचेतनस्येत्यपि प्रत्युक्तम् , प्रयत्नवत एव प्रयोक्तत्वसंभवात् तन्नित्यतया प्रयोज्यत्वाभावाच्च । ननु चेतनत्वमात्मलक्षणम् , तदभावे तत्त्वं न स्यादिति चेत् , मैवम् ; यत्नवत्वेन तल्लक्षणसिद्धेः ; अन्यथेच्छाविरहेऽपि तदसिद्धिप्रसङ्गः । “इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्म
__ आनन्ददायिनी विषयशक्तिरिति व्यवहारादिति भावः । विषयिधर्माणामिति । विषयिणो ज्ञानस्य धर्म इव धर्मो यस्य विषयित्वधर्माणामित्यर्थः । यस्त्विति। विषयिनियमार्थ हि ज्ञानाद्यङ्गीकारः । तत्र स्वतो विषयिणो ज्ञानस्य यत्नविषयनियमार्थमङ्गीकारोऽस्तु, किमिच्छया स्वतो विषयित्वरहितयेति भावः । प्रत्युत्पन्नवादी-पूर्ववृत्तानभिज्ञइत्यर्थः । तत्र हेतुमाह-नित्ययत्नमात्रेणेति । ननु यत्नस्य विषयितासिद्धयर्थ न ज्ञानं, अपि तु कर्तृतासिद्धयर्थमिति शङ्कतेअबुद्धीति । स्वातन्त्रयं हि प्रेरणहेतुज्ञानवत्त्वं दण्डादिव्यावृत्तं वक्तव्यमिति भावः । अनिच्छापूर्वेति । इच्छापरित्यागम्तर्हि न स्यादिति भावः । अत एवेति । यतोऽन्यप्रयोक्तुर्बुद्धय पेक्षाऽत इत्यर्थः । अन्यथासिद्धत्वान्नेदं युक्तमित्याह --प्रयत्नवत एवेति । एतेन
1 विषयनियमार्थ-ग.
स्वतोऽन्यतो विषयित्व-क.
3 प्रेक्षा तत-क.
6*