________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः प्रोक्ते यत्ने स्वभावाद्विषयवति सधीः स्यादि तीदं क दृष्टं
सर्वार्थसिद्धिः कुतश्चित् प्रमात्वादिकल्पनेऽपि तद्वदेव यत्नस्य विषयित्वेऽन्यनैरपेक्ष्यमपरिहार्यमिति । अत्र परोक्तं प्रसङ्गमनूद्य प्रतिषेधति ---प्रोक्त इति । ज्ञानस्य स्वत एव सविषयत्वमित्येतदेव व दृष्टम् ? सर्वत्र ज्ञाने सामग्रीनियतविषयत्वदर्शनात् । नित्यस्य चेश्वरयत्नस्य कार्यविशेषानुगुणसहकारिलाभमन्तरेण कार्यविषयत्वं नाम न किञ्चित् संभवति । न च विषयित्वमेव ज्ञानलक्षणम् , शक्तयादीनामपि
आनन्ददायिनी भावे विरोधात् ज्ञानमेव न स्यादिति भावः। किं च ज्ञानादिक प्रमाणेन नित्यतया सिध्येत् ; तर्हि तत एव सविषयकः प्रयत्नोऽपि सिध्येदिति किं ज्ञानेनेत्याह-कुतश्चिदिति । ननु ज्ञानं स्वतोविषयि, इच्छाकृत्योस्तदधीनं विषयित्वमिति तदभावे तयोस्तन्न स्यादिति परोक्तप्रसङ्गं परिहरति-ज्ञानस्येति । ज्ञानवदेव यत्नस्यापि स्वत एव विषयित्व, यदि ज्ञानानुविधानदर्शनात् न तथा तदा ज्ञानस्यापि
सामग्रयनुविधानदर्शनात्तन्न स्यादिति भावः। किं च ईश्वरयत्नस्य विषयित्वं हि तत्तत्कार्यसामग्रयायत्तं, न तु ज्ञानाधीनमित्याहनित्यस्येति । ननु विषयित्वं स्वभावतोऽन्यतो वाऽस्तु ; ज्ञानस्यैव विषयित्वमसाधारणम् , तदन्येषां तदधीनं गौणमित्याशङ्कय परिहरतिन च विषयित्वमेवेति । शक्तयादीनामपि विषयित्वमस्त्येव, घट
1 तीद त्वदृष्ट-
पासामग्रयधीनविधान-क.