________________
सर. ३]
नैयायिकाभिमतेश्वरानुमाने निरपेक्षयत्नवत्त्वसिद्धघापादनम्
81
तत्त्वमुक्ताकलापः निर्हेतुस्तत्प्रमेष्टा भवतु विषयवानेष तहस्वतस्ते।
सर्वार्थसिद्धिः विवृणोति-निर्हेतुरिति । अयं भावः-अन्यत्र ज्ञानं सर्व सकारण कं तत्प्रामाण्यं च कारणगुणाधीनमिति स्थापयाद्भिरीश्वरज्ञानं तत्प्रामाण्य च निष्कारणकमिति दृष्टविपरीतं कल्प्यते । अत्र ज्ञानचिकीर्षाख्यधर्म्यन्तरक्लाप्तिमपहाय प्रयत्नमात्रेऽन्यनिरपेक्षं विषयित्वमङ्गीकर्ते युक्तम् ।
नित्या चेश्वरबुद्धिस्ते नानुभूतिर्न च स्मृतिः । न प्रमा न भ्रमश्च स्यात्तत्तत्कारणवर्जनात् ॥ अनुभूत्यादिहेतूनामभावेऽपि तथा यदि । स्मृतिहेतोरभावेऽपि स्मृतिरेषा न किं भवेत् ॥
आनन्ददायिनी तदपेक्षेति भावः । ननु ज्ञानवदेव प्रयत्नस्यापि निर्हेतुकत्वाङ्गीकारातद्दष्टान्तेन तदापादनमयुक्तमनिष्टत्वाभावादित्यत्राह-अयं भाव इति। यद्यपि प्रयत्नो नित्य एव, तथाऽपि तद्धर्मों विषयित्वं ज्ञानाधीनमिति वदन्तं प्रति नित्यज्ञानप्रामाण्यमिव तदपि तन्निरपेक्षमस्त्विति न तर्काङ्गहानिरिति भावः। प्रत्युत बाधमप्याह-नित्येत्यादिना । यावद्विशेषबाधे सामान्यबाध इति भावः । ज्ञानं द्विविधं स्मृत्यनुभवभेदात् प्रमाभ्रमभेदाच्च । एतेष्वन्तर्भावाभावे ज्ञानत्वमेव न स्यात् । न चात्रान्तर्भावः, तत्कारणाजन्यत्वादित्याह-तत्तत्कारणेति । अनुभूत्यादिकारणेत्यर्थः । माऽस्त्वनुभूत्यादिकारणमित्यत्राह-अनुभूत्यादिहेतूनामिति । स्मृतिहेतोरिति । तथा च विनिगमक
___1 दनं युक्त-ग. 2 विषयत्व-ग. 8 तव च-ग. SARVARTHA VOL. IV.