SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसथिसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः किं वा धीच्छे गृहीते विषयनियतये ते हि यनोऽत्र नेच्छेत् सर्वार्थसिद्धिः नन्वहेतुकसंयोगमिच्छद्भिरहेतुकज्ञानं न दूष्यम् , तदूषणे वा सिद्धान्तहानिः स्यादित्यत्राह-किं वेति । कर्तुरनुमानेऽपि प्रयत्नमात्राधारत्वमनुमीयताम् , प्रयत्नव्यापकतया ते अपि सिध्येतामिति चेन्न; जीवनपूर्वकप्रयत्नमन्विच्छतां तत्र व्याप्तिभङ्गात् । अतः प्रयत्नक्लप्तावपि ज्ञानचिकीर्षानरपेक्ष्यमाह-विषयेति । सर्वकार्यविषयस्य हि प्रयत्नस्य विषयनियमाभावादेव न तदर्थं चिकीर्षाद्यपेक्षा । उक्तमर्थं प्रतिबन्दिगतं आनन्ददायिनी 1 आक्षेपिकी सङ्गतिरित्याह-नन्विति । नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम । 'सर्वव्यापी सर्वभूतान्तरात्मा' 'व्याप्य नारायणः स्थितः' इत्यादिप्रमाणबलादजसंयोगोऽस्तु। न च नित्यज्ञानेच्छयोः प्रमाणमस्ति । न च कार्यत्वानुमानं प्रमाणं, प्रयत्नमात्रेण चरितार्थत्वादित्याहकर्तुरनुमानेऽपीति । ननु कार्यत्वहेतुना यथा प्रयत्नसिद्धिः तथा प्रयत्नवत्त्वहेतुना ज्ञानादिसिद्धिं शङ्कते-प्रयत्नात । ते-ज्ञानचिकीर्षे । जीवनेति। सुषुप्ता वपि प्रयत्नाङ्गीकारादिति भावः । सर्वकार्येति। जीवनयोनिप्रयत्ननियमेऽपि न तदपेक्षेति चिकीर्षायोनौ तदपेक्षेति वक्तव्यं ; तथा च सर्वविषयकस्य नित्यत्वादेव न 1 आक्षेपसगति-क. 2 वपि ज्ञानाङ्गीकारा-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy