________________
सरः ३] ईश्वरस्यानुमानिकतावादिपक्षे तदसमतानित्यज्ञानादिमत्त्वापादनम्
79
सर्वार्थसिद्धिः विभुना संयोगे कल्प्यमाने संयोगकारणानामन्यतरकर्मोभयकर्मसंयोगानामसंभवात्तन्निषेधः कृतः, तथेहापि विज्ञानकारणानामिन्द्रियलिङ्गादीनामभावात्तदभावः स्यात् । नित्यत्वान्नरपेक्ष्यमजसंयोगेऽपि सुवचम् । विभूनां मिथस्संयोगाभावे न किंचिद्वाधकामिति चेन्नित्यज्ञानाभावेऽपि किम् ? अस्मदाद्यशक्यकार्यानुत्पत्तिप्रसङ्ग इति चेत् ; न, कारणान्तरैरेव तदुत्पत्त्युपपत्तेः । कर्तृनिरपेक्षैः कारणान्तरैः कार्योत्पत्तिर्न दृष्टेति चेत् , अन्यत्रादृष्टाऽप्यत्र तथा स्यात् , प्रध्वंसस्येव निमित्तमात्रजन्यत्वम् । वरं हि कल्पितस्य ज्ञानादेः कारणनैरपेक्ष्यकल्पनात् सिद्धस्य हेतुवर्गस्य कचित् कर्तृनैरपेक्ष्याङ्गीकारः, अजसंयोगस्वीकारो वेति ; स्वीक्रियतां का हानिरिति चेत् , सिद्धान्तहानिरिति ॥ १७ ॥
आनन्ददायिनी ननु कारणाभावे हि कार्य ज्ञानं निवर्तेत ; न तु नित्यत्वमपीत्यत आहनित्यत्वादिति । ननु नित्यसंयोगोऽङ्गीकर्तुं शक्यते, यदि प्रमाणमस्ति । न चासति तत्कल्पनमित्याह-विभूनामिति । तर्हि नित्वज्ञानेऽपि न प्रमाणं कल्पकमित्याह-नित्यज्ञानाभावेऽपि किमिति। अन्यत्र साहचर्यमात्रमप्रयोजकं कर्तृनिरपेक्षमेव कारकं जनक मस्त्विति नान्यथानुपपत्तिरित्याह--अन्यत्रेति । किं च कार्यान्यथानुपपत्तिपरिहाराय ज्ञानकल्पनेऽपि ज्ञाने कारणाभावादनुपपत्तिस्तदवस्था ; तथेच्छादावपीति शान्तिकर्मणि वेतालोदयः स्यात् । यदि च ज्ञानादि कारणनिरपेक्षमिति कल्प्यते तदा कार्य एव कर्तृनिरपेक्षत्वं वक्तुमुचित लाघवादित्याहवरं हीति । अजसंयोगस्वीकारो वेति वाशब्दश्वार्थः ॥ १७ ॥
1 नित्यमपीवत्र साह ? क.
2 मस्तीति-ग,