________________
18
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
त
तत्त्वमुक्ताकलापः नित्यं ज्ञानं विभोस्तन्न नियतविषयं तेन नान्यार्थनं चे
नानित्यस्यैव दृष्टस्तव कथमजसंयोगभङ्गोऽन्यथा स्यात् ॥ १७॥
सर्वार्थसिद्धिः स्थिते सामग्रीशून्यं ज्ञानं कथं सविषयम् ? निर्विषये च तस्मिन् किं चिकीर्षत ? अचिकीर्षुश्च कुतः प्रयतते । ननु कायस्यैव सामग्रयपेक्षणम् , नित्यस्य तु स्वतस्सर्वविषयस्योत्पत्तिविषयनियत्योरभावात् किं सामग्रयेति शहते-नित्यमिति । त्रय्यन्तिनामिव नित्यज्ञानसिद्धावेतद्वक्तव्यं नान्यथेति स्थापयितुमाह-नेति । अहेतुकं ज्ञानं किं दृष्टमुत कल्पितम् ? नाद्यः, असिद्धेः ; न द्वितीयः, दृष्टविजातीयक्लप्त्ययोगादित्यभिप्रायेणाह-अनित्यस्येति । तादृशज्ञानक्लप्तौ परस्येष्टविरोधमाह-तवति । मूर्तवद्दव्यत्वादिना विभूनां
आनन्ददायिनी विषयज्ञानस्य कारणाधीनत्वात् तत्कारणतया शरीरादिकमावश्यकमिति भावः । द्वितीय आह-निर्विषये चेति । चिकीर्षाप्रयत्नयोः ज्ञान विषयविषयकत्वनियमात् , अन्यथाऽन्यज्ञानादन्याचिकीर्षाप्रसङ्गः । वस्तुतस्सर्वगोचरयोस्तयोः प्रसङ्ग इति भावः । त्रय्यन्तिनामिवेति । नित्यज्ञानसिद्धावेव वक्तुं शक्यं, तत्सिद्धिश्च किं वेदान्तात् , उतानुमानात् , नाद्यःअनुमेयत्वाभावप्रसङ्गात् । न द्वितीयः-उक्तरीत्या जन्यस्यैव सिद्धिप्रसङ्गादिति भावः । तादृशज्ञानक्लप्ताविति । कारणानपेक्षज्ञानक्लप्तावित्यर्थः ।
1 विषयक-क.
सनी