________________
सरः ३] ईश्वरस्यानुमानिकत्ववादिपक्षे तदनिष्टकार्यकरणादिमत्त्वस्य प्रसञ्जनम्
77
तत्त्वमुक्ताकलापः यत्कार्यस्योपयुक्तं तदिह भवतु नः किं परेणेति चेन्न
ज्ञानादेरुद्भवे तद्विषयनियमनेऽप्यर्थनादिन्द्रियादेः।
सर्वार्थसिद्धिः ननु कार्योत्पत्तौ कर्तुर्ज्ञानचिकीर्षाप्रयत्नमात्रमुपयुज्यते, देहादेः कार्यव्यापकत्वादर्शनात् ; कार्यविशषे तदुपयोगो दृष्ट इति चेत् , यत्र दृष्टस्तत्र तथाऽस्तु, न सर्वत्र ; अतिप्रसङ्गादित्यभिप्रायेण शङ्कते--- यदिति । उपयुक्तं -ज्ञानचिकीर्षादिकम् । परेण-कार्योत्पत्त्यनुपयुक्तनेत्यर्थः । अनुपयांगो दुर्वच इत्यभिप्रायेणाह-नेति । तत्साधयति --ज्ञानादेरिति । सपशव्याप्तप्रकारेण पक्षेऽपि कर्तुानादिना कार्येण भवितव्यम् ; ततस्तत्कारणतया कायकरणकर्मादियोगोऽपि दुस्त्यजः । प्रयत्नस्य विषयनियमाश्चिकीर्षया ; तस्याश्च प्रियाप्रियप्राप्तिपरिहारव्यापारकारणेन तावद्धया ; सा च तत्तत्सामग्रीनियतविषयेति विषयनियमे
आनन्ददायिनी __ननु शरीरादिमत्त्व न कर्तृत्वव्यापकमप्रयोजकत्वादित्याक्षेपसंगतिरित्यभिप्रायेणाह-नन्विति । परशब्दोऽन्यार्थ इत्याह-कार्योंत्पत्तीति। तत्साधयतीति । दुर्वचत्वमेवेत्यर्थः । सपक्षव्याप्तप्रकारेणेति । ज्ञानत्वावच्छेदेन कार्यत्वाववारणादित्यर्थः । आदिशब्दन यत्नादिग्रहः । ततस्तत्कारणतयेति । ज्ञानादिकारणतयेत्यर्थः । आदिशब्देन प्रवृत्त्यादिग्रहः । किं च ज्ञानं सविषय निर्विषयं वेति विकल्प 1 मनसि कृत्वाद्य आह-प्रयत्नस्यति । प्रियापियप्राप्तिपरिहारहेतुयत्नस्य चिकीर्षाद्वारा ज्ञानसाध्यत्वादिति भावः। सा चेति। नियत
1 मनसि कृत्या-क.