________________
76
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
उपाकलापः
तत्त्वमुक्ताकलापः व्याप्ताकारप्रसङ्गात्तदनुपगमने न क्वचित्स्यात्प्रसङ्गः ॥ १६ ॥
सर्वार्थसिद्धिः अयं भावः-यदि वयमीश्वरे धर्मिणि प्रसङ्गमवतारयामः, तदा सिद्धयसिद्धिविकल्पदौःस्थ्यं स्यात् ; यदि च पृथिव्यादावाश्रये कार्यत्वहेतुना कर्तारं देहादिमन्तमुपस्थापयेम, तदा दूर्वादौ व्यभिचारात् न प्रतिसाधनं न प्रतितर्कश्चेति स्यात् । किंतु संप्रतिपन्ने पृथिव्यादौ धर्मिणि साध्यधर्मस्वभावात्तद्व्यापकप्रसक्तिं ब्रूमः ; अतो न कश्चिद्विरोध इति । अथ साक्षात्परसाध्यमाश्रयीकृत्य प्रसङ्गः प्रयोक्तव्य इति मन्येत ; तदा प्रसङ्गम्यैवोच्छेद इति प्रसञ्जयति -तदनुपगमन इति । परेष्टसाध्यविशेषस्य स्वीकारे बहिष्कारे च व्याघातस्य दुष्परिहरत्वादिति शेषः ॥ १६॥
आनन्ददायिनी येन सिद्धयसिद्धयद्धयादिदोषः स्यात् । अपितु क्षित्यादावेव । यदि क्षित्यादिक सकर्तृकं स्यात् शरीरिकर्तृकं स्यात् इत्याद्यापाद्यत इति न सिद्धयसिद्धिव्याघात इति भावः । ननु क्षित्यादिकं शरीरिकर्तृकं स्यात् कार्यत्वादिति । यद्यापाद्यते तदाऽङ्कुरादौ व्यभिचार इति कथमापादनमिति चेत्-तत्राह-अयं भाव इति । यदि क्षित्यादौ कता सिध्येत् स तु शरीर्यपि स्यात् । कर्तृतायाः शरीरादिव्याप्तेरिति भावः । ननु पक्षे पराभिमतसाध्यं निश्चित्यैव तर्कप्रवृत्तिः । न तु साध्यसामान्यव्याप्तया तत्प्रसञ्जनं ; तथा च सिद्धयसिद्धिव्याघात इत्यत आह-अथ साक्षादिति । तर्हि क्वचिदपि प्रसङ्गो न स्यादित्याह-परेष्टेति। निश्चिते बाधेन तदापादनायोगात् , अनिश्चिते त्वाश्रयासिद्धिरिति भावः ॥१६॥
1 यदाऽऽपा-ग.
-
-