________________
74
सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्त्ताकलापे
तत्त्वमुक्ताकलापः
नियतमवगतं स्याद्धि पक्षेऽपि तादृक्
[नायक
सर्वार्थसिद्धिः
सपक्षे नियतमवगतम् — येनाकारेण व्याप्तं प्रमितमित्यर्थः । स्याद्धि पक्षेऽपि तादृक् – न हि पर्वते वह्निरनुमीयमान उष्णत्वमपहाय सिध्येदिति भावः । व्यवहितेऽपि पश्चादुष्णत्वदर्शनात्तत्सिद्धिरिति चेन्न ; प्रालेयमर्मरितै. पद्मपत्रादिभिः प्रालेयसन्निहितानुद्भूतरूपहुतवहानुमाने तदसिद्धेः । न च तत्रानुष्णो वह्निरनुमीयेत ; मर्मरीभावस्यैवासिद्धिसङ्गात् । यद्यनुष्णो वह्निः कश्चित्पचेत् । अन्वयव्यतिरेकवान्नीहार एव पाचकः किं न कल्प्येत; एवं सामान्यतश्शिक्षितया व्याप्तथा प्रस्तुतेऽनिष्टआनन्ददायिनी
कार्यत्वाद्घटवत्, घटादिपदानि केनचित्संकेतितानि पदत्वात् डित्यादिपदवत्, वेदवाक्यजन्य प्रमा गुणजप्रमात्वात् वक्तप्रमाजन्या प्रमात्वात् गामानयेतिवाक्यजन्यप्रमावत्, वेदवाक्यं स्वार्थनित्य सर्व साक्षात्कारवत्पुरुषजन्यं वेदत्वात् व्यतिरेकेण गगनवत्, वेदवाक्यानि नकेचि - प्रणीतानि वाक्यत्वात् कालिदासवाक्यवत्, परमाणुगत द्वित्वं कस्यचिदपेक्षाबुद्धिजन्यं द्वित्वसंख्यात्वात् घटगत द्वित्ववदिति । अत्र सर्वत्रापि पक्षधर्मताबलादीश्वरसिद्धिरिति भाव. ||
3
ननु धूमव्यापकभूतो वह्निस्तृणजन्यत्वेनावगतः तथाऽपि तृणजन्यत्वेन न वह्निसिद्धिरित्यत्राह - येनाकारेण व्याप्तमिति । एवं च १ व्यापकतया प्रतीतधर्मवत्त्वेन सिद्धिरित्यर्थः । नन्वनुमितौ व्यापकतावच्छेदकावच्छिन्नमात्रस्य सिद्धिरन्यथाऽतिप्रसङ्गादित्यत्राह - न हि पर्वत इति । नन्वनुमितौ नोष्णता विषया, अपि तु पश्चात्प्रत्यक्षेणावगम्यत—— इत्याशङ्कते — व्यवहितेऽपीति । प्रालेयेति । तत्र पश्चात् प्रत्यक्षेणौष्ण्य ग्रहणादिति भावः – मर्मभावस्येति ।
4
3
1 ' प्रमा गुणजन्या प्रमात्वात् कक्तप्रमाजन्यगामा- ग. 2 दासादिवाक्य - ग. 8 व्याप
कतावच्छेदकव्यापकताप्रतीतधर्म- ग. 4 नोष्णो विषयः - ग. 5 ष्ण्यग्रहादिति-क.