________________
72
सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
तत्त्वमुक्ताकलापः
[नायक
शास्त्रेभ्यस्तत्प्रसिद्धौ सहपरिपठनाद्विश्वकर्ता -
पि सिध्ये
9
सर्वार्थसिद्धिः स्मृतवेदभागप्रत्यक्षीकरणमेव । श्रयते हि " अजान् ह वै पृश्वींस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् त ऋषयोऽभवन्तदृषीणामृषित्वम् " इति । अतस्तैरेव सर्वोपपत्तौ किमन्येन । एतेन बहुपरिग्रहगौरव चापास्तम् । विजातीयक्लृप्तावेव हि गौरवम् । न च बहुष्वनाश्वासः ; एकस्मिन्निव तेष्वपि तत्परिहारस्य समचचत्वादिति । आगमात्सर्गादिसिद्धौ सर्वकर्तुरपि तत एव सिद्धिमाह - शास्त्रेभ्य इति । सर्वकर्तारं पुरस्कृत्यैव हि सर्गादिकथनम् ; अतोऽनुमेयं नावशिष्यत इति भावः । विमतं प्रति प्रयोगसंभवेऽप्यनुमानासामर्थ्यं दर्शितम् । सांख्यागमैः
•
आनन्ददायिनी
तस्येति भावः । तत्र प्रमाणमाह-अजानिति । पूर्वजन्मत पस्सिद्धान् पृश्नीन् पृश्निनाम्नः स्वयंभु नित्यं ब्रह्म वेदः अभ्यानर्षत् अभ्यगच्छत्, प्रत्यक्षी अभवदिति यावत् । ननु ऋषीणामुपदेष्टत्वेनाभ्युपगमे प्रतिकल्पं 'भेदेनाभ्युपगमात् गौरवं स्यादित्यत आह - एतेनेत्यादिना । जीवात्मनामेव क्लृप्तानामृषित्वात् न क्लृप्तिरिति भावः । एकस्मिन्निति । आश्वासकल्पकस्य तुल्यत्वादिति भावः । द्वितीयं दूषयति - आगमादिति । सर्वकर्तारमिति । 'यतो वा इमानि भूतानि जायन्ते ' ' एतस्माज्जायते प्राणस्तस्मिन्नेव प्रलीयते' इति तत्पुरस्कारादिति भावः । विमतं प्रतीति । व्याप्तयादिकमस्त्येव, तथाऽपि नाभिमतसाधकमिति भावः ।
1 भेदाभ्यु - ग.