________________
सरः ३]
उदयनोक्तेश्वरसाधकानुमाननिरासः
71
सर्वार्थसिद्धिः प्रमायाः परत्तन्त्रत्वात् सर्गप्रलयसंभवात् ।
तदन्यस्मिन्ननाश्वासान्न विधातुरसंभवः ।। इति, तत्राद्यो हेतुर्बुद्धिसरे दूषयिष्यते । द्वितीयस्त्विदानी दूषितः । तृतीयोस्तु विमतः । संभवन्ति हि सर्गादिकाले प्राचीनसुकृत. सञ्चयविपाकवै [जात्या] विध्यात् प्रतिबुद्धवेदराशयो देवा महर्षयश्च । ते युष्माभिरपि वेदवक्तुराप्तिख्यापनाय तदुपदेशग्रहणप्रवचनाद्यर्थं च स्वीकृताः । ऋषित्वमपि सुप्तप्रबुद्धन्यायेन सुकृतवशात् प्रागधीतप्र.
आनन्ददायिनी वेत्यर्थः-द्वितीयस्त्विति । सर्गप्रलयसम्भव इत्येतदित्यर्थः । तृतीयस्त्विति । योगिषु विश्वासासम्भवाद्विश्वसनीयस्तदन्यः सिध्यती'त्यपि वक्तव्यं, तन्नोपपद्यत इत्यर्थः । विमत:-असिद्धः । विमतिमेवोपपादयति-संभवन्तीति। तेष्वाश्वासाभावे बाधकमभिप्रेत्याहयुष्माभिरपीति। अन्यथेश्वरस्याप्तत्वमेव न सिध्येत्, तद्वचनानामप्रामाण्यशङ्कायासात् तदुपदेशग्रहणे चाश्वासाभावादन्यथाऽपि ग्रहणशङ्का स्यात् । तदुपदिष्टं विस्मृत्य तत्प्रच्छादनाय तूपदिष्टादन्यदुपदिशतीति च शङ्का स्यादिति भावः । आदिशब्देन ग्रहणधारणादिसंभवेऽपि विप्रलिप्सयाऽन्यदेवोपदिशतीति शङ्कादि गृह्यते । ननु यदि कश्चिदृषिराप्तो वेदमुपदिशेत् , स त्वादिकर्तेश्वर एव स्यादित्यत आहऋषित्वमपीति । पूर्वजन्मन्यधीतिसापेक्षतया परतन्त्रत्वान्नेश्वरत्वं
योगिष्वविश्वासस-ग. 3 श्वस्तस्तदन्य -ग
4 ति
1 णधारणप्र-पा. वक्त-ग. 5य तदुपदि-ग.