________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः यदिदं बाधशन्यं विपक्षे।
सर्वार्थसिद्धिः चयभिदुरब्रह्माण्डभेदेन तत्तत्परमाणूनां प्रागपि ब्रह्माण्डसन्तत्यन्तरारम्भसंभवेनार्थान्तरत्वापातादिति । साधारणदोषमाह-यदिदमिति । न तावत्सर्गाद्यभावे काचिदनुपपत्तिः । यद्यप्यारब्धानां भावानां नश्वरत्वमात्रं गम्यते, तथापि तत्सन्ततीनामनुच्छेदोक्तौ न विरोधः । यत्तूक्तम्
आनन्ददायिनी कत्वदूषणमाह-साधारणेति । ननूत्पन्नस्य विनाशित्वनियमात् ब्रह्माण्डस्य विनाशे प्रलयः सिद्ध इत्यत्राह-यद्यपीति । सत्यं तथापि सजातीयासमानकालीनविनाशो नास्तीति न सन्ततिविच्छेद इति भावः । प्रमागुणजन्येतिवाक्यजन्यप्रमायां वक्तवाक्यार्थयथार्थज्ञानस्य गुणत्वात् वेदशुकादिवाक्यजन्यप्रमायां वक्तवाक्यार्थप्रमावेनेश्वरीया सिध्यतीतीश्वरसिद्धिः । किंच प्रलयानन्तरसर्गाद्युपदेशेऽध्यापकपरंपराया विच्छिन्नत्वादुपदेशलिङ्गादीश्वरसिद्धिः । किंच कस्यचित् सर्वज्ञस्येश्वरस्याभावे सर्वेषां भ्रमादि सम्भवेनानाश्वाससम्भवाद्वेदवाक्यप्रमानुरोधेनेश्वरसिद्धिरितीदमेवोपदेशलिङ्गकमनुमानमीश्वरसाधकमित्युदयनोक्तमनुवदति-यत्तक्तमिति । विधातुरीश्वरस्यासंभवोऽसिद्धिरे
1 सभवेन विश्वासासंभवा-ग.