________________
सरः ३]
ईश्वरस्योपदेशलिङ्गसिद्वतानिरासः
69
तत्त्वमुक्ताकलापः तत्सिद्वौ नानुमानं प्रभवति
सर्वार्थसिद्धिः गमाद्वेति विकल्पे पूर्व दूषयति-तत्सिद्धाविति । अयं भावः -- विश्वसन्ततिरत्यन्तमुच्छिद्यते, सन्ततित्वात्, प्रदीपसन्ततिवदित्यनुमानं तावत्सर्वात्ममोक्षमिच्छतामन्त्य मुक्तिसमयभाविना सर्वकार्योच्छेदेन चरितार्थं स्यात् । वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात्. घटादिपरमाणुवदित्यत्राप्युपचाप
आनन्ददायिनी नास्तीति विवक्षितम् , उत सत्यपि तस्मि'न्सामर्थ्य नास्तीति, नाद्यः । विश्वसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपसंततिवन् , वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानकाः नित्यत्वे सति तदारम्भकत्वात् घटादिपरमाणुवदित्यनुमानसंभवात् । न द्वितीयः-व्याप्तिपक्षधर्म तादिमतस्साधकत्वादित्यत आह-अयं भाव इति । विश्वसन्ततेः प्रतिदिनमुच्छेदात् सिद्धसाधनमित्यत आह-अत्यन्तमिति । सजातीयसमानकालीनोच्छेदवदित्यर्थः । सर्वकार्योच्छेदेन महाप्रलयेनेति । इत्थं परमाणुमात्रपक्षीकारेंऽशतस्सिद्धसाधनमित्यत आह-वर्तमानेति । नित्यत्वे सतीति विशेषण घटपटाद्यारम्भकतन्तुकपालादौ व्यभिचा-, रवारणाय । आत्मादौ व्यभिचारवारणाय तदारम्भकत्वादिति । तच्छब्दो हि सन्तानान्तर्गतद्रव्यपरः । तथा च द्रव्यारम्भकत्वादित्यर्थः । अनापीति । ३ अवयविवादे प्रतिक्षणं परमाणुविभाग संयोगाभ्यां पूर्वब्रह्माण्डनाशब्रह्माण्डान्तरोत्पत्तयादिसंभवादिति भावः । अप्रयोज
1 सामान्यं नास्ती-ग. 2 तादीनामसा-ग 3 अवयववादे-ग. + संयो. गसभवात्पूर्व-ग.