SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः सर्गादीनामसिद्धौ न हि निगमगिरी भज्यते संप्रदायः सर्वार्थसिद्धिः श्रुतिसिद्ध ईश्वर इत्युक्तम् । अनुमानतोऽपि सिद्ध इति वदन्तः प्रतिवक्तव्याः । तत्र तावदुपदेशलिङ्ग दष्यते-सर्गादीनामिति । किमस्मदादीनां धर्मोपदेशार्थमीश्वरः कल्प्यते, उत कल्पादिसंभवानां पुरुषविशेषाणाम् । नाद्यः-पित्रादिक्रमेण संप्रदायप्रवृत्तेरीश्वरनरपेक्ष्यात् । पित्रादिप्रेरणार्थमीश्वरोऽपेक्षित इति चेत् , न तहीदमुपदेशलिङ्ग, कायलिङ्गानुप्रवेशात् । न द्वितीयः --सर्गाद्यसिद्धाविदानीमिवानादि. संप्रदायाविच्छेदेन तत्प्रवर्तकानपेक्षणात्। सिद्धिस्तु सर्गादेरनुमानादा आनन्ददायिनी ननु श्रुत्येश्वरसिद्धिरित्यनुपपन्नं ; प्रमाणान्तर सिद्धे तात्पर्याभावादित्याक्षेपसंगतिमभिप्रेत्याह-श्रुति सिद्ध ईश्वर इति। केचित्तु श्रुतिसिद्धः श्रुत्यैव सिद्ध इत्यर्थ इत्याहुः । उपदेशो द्विविधः स्वरूपख्यापनमनुष्ठानप्रदर्शनमिति ; तत्राद्यं दूषयति-किमित्या दिना। न तीति । प्रेरकत्वेन कारणानि प्रति कर्तृत्वात् कार्य कर्तृजन्यमित्यत्रैव पर्यवसितम् । तच्चाग्रे दूष्यत इति भावः । इदानीमेवेति । पित्रादिक्रमेणैवेत्यर्थः । ननु नानुमान प्रभवतीत्यनेन किं 1न्तरासिद्धे-क. - सिद्ध इति-ग. 3 दिना। तहीति-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy