________________
सरः ३] कल्पभेदभिन्नेश्वरत्व प्रवाहेश्वरत्व-प्रतिफलनकल्पेश्वरत्वादिपक्षनिरासः 67
तत्त्वमुक्ताकलापः इन्द्रादीनामिव स्थानिजसुकृतवशादीश्वराणां प्रवाहः
स्यादेकस्येश्वरत्वं प्रतिफलनवदित्यादि चैवं परास्तम् ॥ १४॥
सर्वार्थसिद्धिः इति कल्पनाऽपि निरस्ता । प्रवाहेश्वरपक्षश्च “न कर्मणा वर्धते नो कनीयान् " " स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् " इत्यादिश्रुतिभिरवधूतः । अस्त्वक एवेश्वरः, तस्येश्वरत्वं नित्यसत्त्वविशेषसन्निधाननिबन्धनं प्रतिफलनकल्पमिति योगराधान्तश्च
___ 'पराऽस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च' इत्यादिभिरपोढः । आदिशब्देन नित्यचिकीर्षाप्रयत्नवांश्चिकीर्षारहितोऽपि वा ज्ञानप्रयत्नमात्रवानित्यादिमतभेदसंग्रहः। एवं-श्रुतिलिङ्गादिप्राबल्यस्थापनप्रकारेणेत्यर्थः ॥ १४ ॥
इति त्रिमूत्र्यैक्यादिपक्षनिरासः.
___ आनन्ददायिनी प्रवाहेश्वरेति । इन्द्रादिप्रवाहवदुपचितपुण्यविशेषाणामीश्वराणामपि प्रवाह इति मीमांसकमतम् । नित्यचिकीर्षेति तार्कितमतम् । तदेकदेशिमतमाह--ज्ञानप्रयत्नेति । पूर्व स्वरूपाभ्युपगमोऽत्र गुणे प्रकारविशेषाभ्युपगम इति भेद । आदिशब्देनाध्यस्तगुणवत्त्वमनित्यकर्माधीनगुणवत्त्वमित्यादिसंग्रहः । श्रुतिलिङ्गादीति । श्रुतिलिङ्गादिभिर्नारायणपरत्वे सिद्ध एते पक्षा निरस्ता इत्यर्थः ॥ १४ ॥
त्रिमृत्यॆक्यादिपक्षनिरासः.
हात त्रिमू
1 निराकृता-ग.