________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
नायक
तत्त्वमुक्ताकलापः विष्ण्वन्या मूर्तिरीष्टे प्रभवननियमः कल्पभेदातयाणाम्।
सर्वार्थसिद्धिः श्चैकस्य सर्वप्रशासितृत्वादिभिर्निरस्तः । विष्णोरन्य एव ब्रह्मा रुद्र आदित्यो वा कश्चिदीश्वर इति वादोऽपि विष्णोरेव सर्वेश्वरत्वस्थापनादपास्तः । त्रय ईश्वरास्सत्वादिगुणोन्मेषभिदुरकल्पभेदाच्चक्रनेमिनीत्या निम्नोन्नतैश्वर्या
आनन्ददायिनी इति पौराणिकाः । तद्दषयति-एकस्येति । 'एको देवः सर्वभूतेषु गढः 'एकमेव' नेह नानास्ति' इत्यादिभरित्यर्थः । विष्णोरन्य एवेति । रुद्रयामले वामागमे च
प्रकृतिर्विष्णुरीशान ईश्वरो जगतस्तथा । इति । अन्यत्र च---
'ईश्वरश्शंभुरादित्यः पर्जन्यश्च हुताशनः' इति दर्शनाद्विष्णोरन्यः पर इति कापालिका आहुरित्यर्थः । 'यस्मिन्कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं' इत्यारभ्य - 'सात्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्तितम् ।। राजसेषु तु कल्पेषु माहात्म्यं ब्रह्मणो विदुः ॥ 3 इत्यादिवचनार्थभ्रान्तिमूलकं शैवैकदेशिमतमाह-त्रय इति । 1 रन्य इति-क. सात्विके घेव कल्पेषु-ग. इति वचनाद्धान्ति-ग.