________________
सर ३] महेश्वरादिसमाख्यायाश्श्रुतिबाधितत्वात्तत्याविष्ण्वन्यस्यपरत्वसाधना संभवः 63
तत्त्वमुक्ताकलापः
इन्द्रेशानाद्यभिख्या स्वयमिह महदाद्युक्ति
भिर्वा विशिष्टा
सर्वार्थसिद्धिः
-
अत्र कश्विदाह — ईश्वरशब्दो निर्विशेषणो महत्परमशब्दविशेषितश्च कस्यचित् समाख्या; अन्यस्य त्वेवं त्रिविधः पुरुषशब्दः ; अतस्तयोरवसीयते परावरभाव इति । अन्प्रतिबन्दि सहोक्त्या सूचयन् प्रतिवक्ति - इन्द्रेशानादीति । अयं भाव — इन्द्रशब्दो हि परमैश्वर्य - वाचिधातुनिष्पन्नः केवलोऽपि परमेश्वरत्वं ब्रूते, किमुत महत्पूर्वः, तथाऽपि येन तत्र " समाख्यासङ्कोचः स रुद्रेऽपि समः, कार्यस्वकर्मवश्यत्वयोस्समचर्चत्वादिति । समाख्यातः श्रुत्यादेर्बलीयस्त्वं सूचयन् आनन्ददायिनी
आक्षेपसङ्गत्यभिप्रायेणाह - अत्र कश्चिदिति । एवं त्रिविध इति । केवल पुरुषशब्दो महा पुरुषशब्दः परमपुरुषशब्द इत्येवंप्रकारेणेत्यर्थः । अतस्तयोरिति । कल्पभेदेन परावरभावे विनिगमनाभावादिति भावः । यौगिकं नाम समाख्या । नन्विन्द्रादिसमाख्याया मानत्वं नास्तीत्ययुक्तं, घर्मि मानस्येन्द्राद्युपस्थापकस्य परत्वविरोधित्वाभावात्; प्रत्युतानुगुण्यमेवेत्यत्राह - अयं भाव इति । केचित्तु - इन्द्रादिसमाख्यासाम्यमनुपपन्नं तत्समाख्यायाः परत्वानवगमादित्यत आह-अयं भाव इतीत्याहु: । कार्यत्व कर्मवश्यत्वादिना हि धर्मिग्राहकेणोपस्थिते वस्तुनीन्द्रशब्दस्य समाख्यात्वग्रहः । तथा च प्राथमिकेन धर्म्यपस्थापकेन परत्वविरोध्युप स्थापनेन बाघिता समाख्या न परत्व
;
3
'मानस्य ज्ञानाद्यु - ग.
1 श्वर्य ब्रू- घ. 2 समाख्यार्थस - घ. 5 स्थापकेन - ग.
4
·
यामपर - ग.