________________
सरः ३] मध्यस्थोक्तिष्वपि बहुत्र विष्णोरेव परत्वाभिवानात्तस्यैव परत्वम्
59
तत्त्वमुक्ताकलापः वृत्तान्तास्ते विचित्राः
सर्वार्थसिद्धिः निर्णयः स्यात्। ब्रह्मरुद्रायकैकमहिमतत्परे च पुराणे बहुषु प्रदेशेषु भगवत्पारम्यं दृश्यते । तत्र रक्तरुष्टयोरपि दोषगुणोक्तौ प्रत्ययितत्वमाहुः । वृत्तान्ताः-"क्रान्त्वा निगीर्य पुनरुद्गिरति " इत्यादिभिस्संगृहीताः ।
आनन्ददायिनी पुराणं मध्यस्थम् । तथा च राजसतामसयोरपि भगवत्परत्वस्य दर्शनात्सर्वानुगतं तदेव ग्राह्यमित्यर्थ इत्येके । अन्ये तु-पुराणं चतुर्विधं सात्विकराजसतामससंकीर्णभेदात् । संकीर्णं तु मध्यस्थं, तदनुरोधेनार्थो वर्णनीय इति वदन्ति । किं च ब्रह्मरुद्रप्रतिपादकपुराणेष्वपि भगवतः पारम्यं प्रतिपाद्यत इत्यरातिकरलिखितविजयपत्रन्यायेनानुवृत्तं भगवतः पारम्यमेव सत्यम्, अन्यत्तत्तत्प्राकराणिककार्यान्तरार्थमर्थवादमात्रमित्यभिप्रायेणाह-ब्रह्मरुद्रेति । तत्तत्पुराणेषु भगवत्पारम्यस्य वाऽर्थवादत्वं कुतो न स्यादित्यत्राह-तत्रेति। रक्तरुष्टयोरित्यस्य व्युत्क्रमेणान्वयः ।
एवं तु मन्यमाना वै महत्त्वमपि यान्ति ते । अत्र विद्विष्टमनसो निरयं त्वधिविन्दति । तस्मान्मुनीश्वरा यूयं नारायणमनामयम् ।
भजध्वं भवतापघ्नं इत्यादिस्कान्दादिवचनैर्भगवत्पारम्यानुरक्तस्य महत्त्वरूपातिशयोक्तेः विद्विष्टेति च द्वेषरूपदोषोक्तेश्च तत्र भगवत्परत्वे प्रत्ययितत्वं तात्पर्यवत्त्वं मुनयो वदन्तीत्यर्थः । तस्मिन्नर्थे विश्वसनीयत्वं व्याख्यातारो वदन्तीति केचित् । क्रान्त्वा निगीर्येति । अस्यार्थः स्तोत्रभाष्ये
1 गुणदोषोक्तौ-च. 2 प्रत्यधीतत्व ता-क,