________________
सरः३]
विष्णोरेव प्रणवगतार्धमात्रापुरुषशब्दार्थतया परत्वम्
।
तत्त्वमुक्ताकलापः प्रोक्तो विष्णुशिशखायामपि हि स पुरुषः प्राप्ततारार्धमात्रः ॥ १०॥
सर्वार्थसिद्धिः कारणस्य ध्येयत्वविधानार्थमिति भावः। तत्रैव प्रणवनिरूपणे स्वार्थस्थापनं व्यनक्ति-प्रोक्त इति । प्रणवस्य तिसृणां मात्राणां वर्णभेदांस्त्रिमूर्तिदेवताकत्वं चोक्त्वा तस्य चतुर्थ्या अर्धमात्रायास्सर्ववर्णत्वं पुरुषदेवताकत्वं चोक्तम् । स च पुरुषः “ सृष्टिस्थित्यन्तकरणीम् " इत्यादावुक्त एव जनार्दनः । “ तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासः
आनन्ददायिनी निरासार्थ सौलभ्यं कथितं भवतीत्यर्थः । ननु विष्णोरेव परमकारणत्वे हि सौलभ्यार्थावतारपरता वक्तुं शक्यते । तदेव न संभवति । अनेन वाक्येन त्रितयकारणस्यान्यस्य प्रतीतेरित्याह-तत्रैवेति । पुरुषदेवताकत्वमिति । पुरुषप्रतिपाद्यकत्वमित्यर्थः । प्रतिपाद्यार्थस्यैव देवतात्वात् । तथा च पुरुषस्य जगत्कारणत्वात् अर्धमात्राप्रतिपाद्यात् पुरुषान्मूर्तित्रयमुत्पन्नमिति कथनेन स्वजन्मन्यपि स्वस्य कारणत्वोक्तेस्सर्वकारणत्वं दृढीकृतामति नोत्तीर्ण किंचिदस्तीति भावः । ननु पुरुषशब्दस्य साधारणत्वात् कथं नारायणोऽधमात्रार्थ इत्यत्राह--स च पुरुष इति । जगत्कारणत्वमन्यस्य नोपपद्यत इत्यर्थः । लिङ्गं चाहतस्य हैतस्येति ॥
1 पाद्याया एव-क.