________________
54
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः स्वस्यापि प्रत्यवायानभिनयति नृणां पापभीति विधित्सुः।
शुद्वैस्स्वेच्छावतारै जनि सुलभतां तावतो. त्पत्त्यनूक्तिः
सर्वार्थसिद्धिः इत्यादिभिस्सिद्धम् । यद्यपि " जनितेन्द्रस्य जनितोत विष्णोः' इत्येतत् प्रीणनद्रव्यप्रशमनार्थ, तथाऽप्यथर्वशिखायां "ब्रह्मविष्णुरुद्वेन्द्रास्ते सर्वे संप्रसूयन्ते ” इति ब्रह्मादेरिव भगवतोऽपि प्रसूतिः श्रूयते । अतस्तदतिरिक्तं कारणं तत्र ध्येयतयोच्यत इत्यत्राह-शुद्धैरिति । अकर्महेतुकैरप्राकृतरित्यर्थः । सौलभ्यार्थावतारानुवादस्तस्यैव सर्व
आनन्ददायिनी द्वितीयं शङ्कते--यद्यपीति । ‘सोमः पवते जनिता मतीनां जनितेन्द्रस्य जनितोत विष्णोः' इत्यादीनां देवताप्रीणनहेतुसोमद्रव्यप्रशंसार्थत्वं तस्य 1 प्रत्यक्षविरोधादिना सिद्धमित्यर्थः । ब्रह्मादेरिवेति । एकस्याख्यातस्य विरूपतयाऽर्थ प्रतिपादकत्वायोगात् ब्रह्मादितुल्योत्पत्तिकत्वे कर्मवश्यत्वं सिध्यतीति भावः । अत इति । यतः कर्मवश्यस्य ध्येयत्वं कारणत्वं च ब्रह्मादेरिवायुक्तं तत इत्यर्थः । अकर्महेतुकैरिति । 3 यद्यप्याख्यात एकरूपेण स्वार्थ बोधयति, तथाऽपि कर्मकृतत्वादिरूपेण न बोधयति, तत्र सामर्थ्याभावात् । अपि तु उत्पत्तित्वेन सामान्यतोऽवगम्यते । तथा च ब्रह्मादिसमभिव्याहारादिलिङ्गेन कर्मवश्यत्वमनुमेयम् । तत्र च ‘न कर्मणा वर्धते' इत्यादिश्रुतिबाधान्नानुमानमिति भावः । ननु तर्हि ब्रह्मादिमध्ये विष्णूत्पत्तिः किमर्थं कथ्यत इत्यत्राह-सौलभ्याथेति । कर्मवश्यैस्सह सजातीयतयाऽवतारकथनेन दुरधिगमत्वशङ्का1 प्रत्यक्षादिविरो-क. 2 प्रत्यायक-ग. यद्यप्यत्राख्यात-ग