________________
सव्याख्यसर्वार्थसिद्धिमहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः आद्यं रामायणं तत्स च निगमगणे पञ्चमः पञ्चरात्रं
सर्वार्थसिद्धिः यथा पाण्डाविकं, यथेन्द्रगोपः" इत्यादिना च पुरुषस्य सर्ववर्ण 'विग्रहः श्रुतः। भारतादौ च विश्वरूपादिविग्रहे व्यक्तमेतत् ।
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
निरुपाधी च वर्तेते वासुदेवे सनातने ।। इति च स्मर्यत इति ॥ १० ॥
उक्तस्यार्थस्यानन्यथासिद्धस्थापकभूयस्त्वमाह-आद्यमिति । मानवादिभ्योऽपि पूर्वमित्यर्थः । तदिति परिग्रहप्रसिद्धिव्यञ्जनम् । स चेत्यपि तथैव । निगमगणे पञ्चमत्वं च " वेदानध्यापयामास महाभारतपञ्चमान्" इति प्रदर्शितम् । पञ्चरात्रस्य कात्स्येन प्रामाण्यं च महाभारतादिप्रसिद्धम्, शारीरके स्थापितं च । सत्त्वेन गुणेनादिभूतेन उपज्ञाय
आनन्ददायिनी ननु नानारूपवत्त्वं कथमित्यत्राह-भारतादौ चेति । नारायणस्य प्रतिपादनादिति भावः । किं च पुरुषशब्दादेव नारायणावगतिरित्याह-भगवानिति ॥१०॥
ननु यद्यपि पुरुषादिशब्दास्सन्ति तथाऽपि तदन्यत्वबोधकानामपि सत्त्वात्तदनुसारः किं न स्यादित्यत आह-उक्तस्यार्थस्येति । पूर्वशेषत्वान्न पृथक्सङ्गतिरिति भावः। रामायणद्वैविध्यभ्रमं वारयतिमानवादिभ्य इति । तथैवेति । प्रसिद्धिप्राचुर्यात् भारतमुपस्थाप
1 विग्रहश्च श्रु-ग ? कथं लिङ्गमि-ग.