________________
सरः २] सर्ववेदश्रुत पुसूक्तस्यैव तदुत्तरश्रुतानन्यथासिद्धलिङ्गाद्विशेषपरत्वम्
तत्त्वमुक्ताकलापः
पुंसूक्तं सर्ववेदप्रपठनमहितं यत्परत्वैकतानं तस्यैव श्रीपतित्वं विशदमभिदधे ह्युत्तरत्रानुवाके ।
सर्वार्थसिद्धिः
निश्चयमुत्पादयति-पुंसूक्तमिति । सर्ववेदप्रपठन महितमित्यनेन परतत्त्वविषयप्रमाणानां मिथोविरोधस्फूर्तौ बलाबलचिन्तायां परिग्रहातिशयादेतस्य प्राबल्यं सूच्यते । उक्तं च तदभिप्रायेण महाभारते -
1
इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते ।
इति । उत्तरानुवाकः पुरुषसूक्तोक्तमहापुरुषविषयः ; सन्निध्यनुगुणशब्दार्थप्रत्यभिज्ञानात् । तत्र " ह्रीश्च ते लक्ष्मीश्च पलयौ " इति तैत्तिरीयास्समामनन्ति । वाजसनेयिनस्तु - " श्रीश्च ते लक्ष्मीश्च पत्न्यौ " इति । न चात्रानुवाकद्वये धातृप्रजापतिशब्दाभ्यामन्यविषयत्वमाशङ्कनीयम् ; विश्वकर्मत्वष्टृशब्दाभ्यामपि प्रसङ्गात् । ततः ±
2
19
आनन्ददायिनी
व्यादित्यर्थः । विरोधस्फूर्ताविति । वस्तुतो विरोध एव नास्तीति भावः । तदभिप्रायेण - प्राबल्याभिप्रायेण । संनिधिश्चानुगुणशब्दार्थप्रत्यभिज्ञानं चेति समाहारद्वन्द्वः । पुरुषं महान्तं सहस्रशीर्षमिति शब्दार्थप्रत्यभिज्ञा । धातृप्रजापतिशब्दाभ्यामिति । 'धाता पुरस्ताद्यमुदाजहार' इत्यत्र धातृशब्दः 'प्रजापतिश्चरति गर्भे अन्तः' इत्यत्र प्रजापतिशब्दश्व | विश्वकर्मेत्यादि । ' विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति' इत्याभ्यां शब्दाभ्यामित्यर्थः । तत इति । यद्यपि श्रुतिरेव
2 अतः - घ.
1 मिथोऽविरोधेऽपि मिथो - घ.
SARVARTHA VOL. IV.
£