________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
चालाई
सर्वार्थसिद्धिः सेतुः "इत्यत्र तावदमृतशब्देन श्रुत्यन्तरवत् ब्रह्माभिधाने स्वप्राप्तेः स्वयमुपाय इत्येतावदेव सिध्येत् । मोक्षाभिधानेऽपि तदुपायतयाऽन्यः परतरो न कल्पयितुं शक्यते । " एष सेतुर्विधरण एषां लोकानामसंभेदाय" इत्यत्र तु 'पिञ् बन्धने' इति धातोः स्वस्मिन्नाधारे विश्वमसङ्कीर्णं बनातीति सेतुः । तत्रापि न ततः परसंभवः । “एत सेतु तीवा" इत्यत्रापि " अन्धस्सन्ननन्धो भवति" इत्यादिषूत्तरवाक्येषु पुरुषस्य प्राप्यान्तरानभिधानात् तरतिः प्राप्तिवचनः । “ एवं नैतं सेतुम्" इत्यादावप्यन्यथासिद्धसेतुव्यपदेशो न प्राप्यान्तरकल्पनक्षम इति ॥ ७ ॥
अथ पुरुषसूक्तस्य विनियोगविशेषान्नारायणपरत्वे सिद्धेऽपि शब्दसाधारण्यात् सन्दिहानानां प्राकरणिकादनन्यथासिद्धलिङ्गाद्विशेष
आनन्ददायिनी श्रुत्यन्तरवदिति। तदक्षरं तदमृतम्' इत्यादाविवेत्यर्थः। मोक्षाभिधानेऽपीति। बन्धमोचनस्यामृतस्य परतत्वायोगादिति भावः । एष सेतुर्विधरणः, इत्यत्र तु नियन्तृत्वमर्थ इति न तत्र शङ्कावकाश इत्याह-एष सेतुरिति । तरतिः प्राप्तिवचन इति । तरणफले प्राप्तौ तरतिरित्यर्थः । अन्यथासिद्धेति । 'नियमनार्थः सेतुशब्द इति भावः । मूले उन्मितत्वं परिच्छिन्नत्वम् ॥ ७॥
ननुः पुरुषसूक्त एव नारायणः कुतः प्रतिपाद्य इत्याक्षेपसंगतिमभिप्रेत्याह-अथेति । विनियोगविशेषादिति ।
यजेत्पुरुषसूक्तेन पुरुषं विष्णुमव्ययम् । इत्यादिविनियोगादित्यर्थः। शब्दसाधारण्यादिति। पुरुषशब्दसाधार,
-
1 नियमार्थः-ग.
2 नारायणः प्रतिपाद्य इति कुत इत्याक्षेप-क.