________________
सरः ३] कारणपुरुषस्यपरिच्छेदोक्तरुपासनार्थत्वं, सेतुन्वश्रुतेःप्राप्पान्तराकल्पकत्वंच 47
तत्त्वमुक्ताकलापः विश्वव्याप्तस्य तस्योचितमुपधिपरिच्छेदनादुन्मितत्वं
स्वस्यैव प्रापकत्वादशिथिलचिदचिद्धारणावैष सेतुः ॥ ७॥
सर्वार्थसिद्धिः देवम्" इत्याधुक्तमिह प्रत्यभिज्ञातम् । अतोऽपि न तदन्यस्योत्तरतरत्वोक्तिसंभवः । अन्यथा " न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः" इत्याधुपबृंहणशतबाघश्चेति । ननु "पादोऽस्य विश्वा भूतनि" "एष त आत्माऽन्तर्हदयेऽणीयान् ब्रीहर्वा यवाद्वा" इत्यादिभिः कारणपुरुषस्य परिच्छिन्नत्वोक्तया ततोऽन्यदपरिच्छिन्नं परतरमित्यत्राह-विश्वव्याप्तस्येति। अयं भावःयत्रयत्र परिच्छेदोक्तिः तत्रतत्र विश्वव्याप्तत्वमप्युक्तम् । अतस्तथातथोपासनार्थमौपाधिकः परिच्छेद उच्यत इति । सेतुत्वश्रुत्या च तेनोपायेन कूलान्तरवत् प्राप्यान्तरं गम्यत इत्यत्राह-स्वस्यैवेति । " अमृतस्यैष
आनन्ददायिनी दुत्तरवाक्यस्य तेनापि विरोध इति भावः । उपबृंहणानुगृहीतोऽयमर्थ इत्याह-अन्यथेति। ननु पुरुषसूक्तादेः प्रतिपाद्यस्य कारणस्य परिच्छिन्नत्वेन सर्वोत्तरत्वायोगादिति शङ्कते-नन्विति । ननु परिच्छेद औपाधिक इत्यत्र न किंचित् प्रमाणमित्यत्राह-अयं भाव इति । व्याप्ते रोपाधिकत्वासंभवात् परिच्छेद औपाधिक इति भावः । ननु 'अमृतस्यैष सेतुः' 'एष सेतुर्विधरणः' इत्यादौ जगत्कारणं सेतुत्वेन व्यपदिश्यते । सेतुश्च कूलान्तरप्राप्तिहेतुरिति मुक्तप्राप्यं सेतुभूतजगत्कारणादन्यत्परतरमस्तीत्यत्राह-सेतुत्वश्रुत्या चेति ।
1 परिच्छेदादौदापधिक-ग. 2 विश्वव्याप्ते-ग.