SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः न त्वितोऽन्यस्य बाधात् । सर्वार्थसिद्धिः देशः। प्रकार्यन्तरस्यासिद्धत्वाद्यदुत्तरतरमित्यनुवादायोगमभिप्रेत्याह-न त्वितोऽन्यस्येति । अयं भावः-" य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दुःखमेवापियन्ति" इति च तद्विषयमेव । अन्यथा “ नान्यः पन्था अयनाय" इति पुंसूक्तवाक्येन व्याघातः । एकविषयत्व एव बुभयत्रान्यवेदनस्य मोक्षहेतुत्वामावोक्तिस्संघटते । तत्र बहुधा विरोधमप्याह-बाधादिति। पूर्ववाक्ये तावत् परान्तरनिषेधादुपक्रमनयेन तद्विरुद्धमुत्तरमुदेतुं नालम्, उत्तरत्र सर्वाननशिरोग्रीवत्वादिना " सहस्रशीर्षा पुरुषः, सहस्रशीर्ष आनन्ददायिनी प्रकार्यन्तरस्येति । पुरुषसूक्तार्थादन्यस्यानेन वाक्येनानुवादो नोपपद्यते, तस्यासिद्धत्वात् । न चास्मादेव सिद्धिः, यच्छब्दानुविद्धस्यानुवादतया 'प्रापकत्वायोगादिति भावः । ननु यच्छब्दयोगे सत्यप्याअयादिवाक्यवदप्राप्तार्थकत्वाद्विधिरस्तु । तद्विशिष्टवेदनमेव वा विधीयतामित्यत आह-अयं भाव इति । वित्तिविषयस्सर्वथा पुरुषसूक्तार्थ एव । तदन्यवेदनस्य मोक्षसाधनत्वनिषेधादिति भावः । बहुविरोधमेवोपपादयति-पूर्ववाक्य इत्यादिना। उपक्रमनयेनेति। 'श्रुतेर्जाताधिकारस्स्यात्' इत्यधिकरणे " उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा" इत्यादेः 'त्रयो वेदा अजायन्त' इत्युपक्रमानुसारेणार्थो वर्णित इति भावः-उत्तरत्रेति। पुरुषसूक्तार्थबोधकत्वा 1 प्रापकत्वादिति-क. 2 पुसूक्तार्थ-ग. 3 इत्यादि । क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy